अम्बेडकरवादी-सामाजिक-धार्मिक-सङ्घटनैः जम्मूनगरे प्रदर्शनम् आयोजितम्
जम्मूनगरम्, २७ जूनमासः (हि.स.)। अखिल-जम्मू-कश्मीर-अम्बेडकरवादी-सामाजिक-धार्मिक-सङ्घटनैः जम्मूनगरस्य अम्बेडकर-चतुष्पथे बाहु-प्लाजा-स्थले लोकतान्त्रिक-प्रदर्शनम् आयोजितम्। प्रदर्शनकारिभिः इलेक्ट्रॉनिक-मतदान-यन्त्रस्य स्थाने पुनः मतपत्र-पद्धत्या निर्व
अम्बेडकरवादी-सामाजिक-धार्मिक-सङ्घटनैः जम्मूनगरे प्रदर्शनम् आयोजितम्


जम्मूनगरम्, २७ जूनमासः (हि.स.)। अखिल-जम्मू-कश्मीर-अम्बेडकरवादी-सामाजिक-धार्मिक-सङ्घटनैः जम्मूनगरस्य अम्बेडकर-चतुष्पथे बाहु-प्लाजा-स्थले लोकतान्त्रिक-प्रदर्शनम् आयोजितम्। प्रदर्शनकारिभिः इलेक्ट्रॉनिक-मतदान-यन्त्रस्य स्थाने पुनः मतपत्र-पद्धत्या निर्वाचनस्य आयोजनस्य याचना कृता।

प्रदर्शनस्य अवसरे वक्तारः अवदन् यत् जम्मू-कश्मीरप्रदेशस्य पुनः राज्यत्वं पुनःस्थापनीयम्, तथा च जनेभ्यः संविधानेन प्रदत्ताः सर्वे अधिकाराः सम्पूर्णरूपेण प्रदेयाः। ते अवदन् यत् लोकतान्त्रिक-व्यवस्थायाः अधिक-सुदृढीकरणार्थं मतपत्र-पद्धतेः पुनः प्रवर्तनम् आवश्यकम्।

प्रदर्शनकारिभिः संविधानस्य संरक्षणम्, लोकतान्त्रिक-मूल्यानां सुदृढीकरणम्, जनाधिकाराणां पुनःस्थापनं च सम्बन्ध्य स्वीयाः मागाः सर्वकारस्य पुरतः प्रस्तुताः। ते शान्तिपूर्णरीत्या स्वस्वरम् उद्घोष्य सर्वकारम् एतासां याचनिनां विषये गम्भीरतया विचारं कर्तुम् आह्वानम् अकुर्वन्।

Hindusthan Samachar / Divya Ranjan