Enter your Email Address to subscribe to our newsletters

जम्मूनगरम्, २७ जूनमासः (हि.स.)। भारतीय-जनता-पक्षस्य विधायकः विक्रम-रन्धावा डिगियाना-स्थिते राजकीय-उच्च-विद्यालये विकास-कार्याणां शुभारम्भम् अकरोत्। अस्मिन् अवसरे सः अवदत् यत् विद्यार्थिनां कृते उत्तमं शैक्षणिक-पर्यावरणं प्रदातुं तथा विद्यालयस्य आधारभूत-सुविधानां सुदृढीकरणार्थम् एतानि कार्याणि प्रारब्धानि सन्ति।
विधायकेन विद्यालय-परिसरस्य निरीक्षणमपि कृतम्। तेन अधिकारिणः निर्देशिताः यत् निर्माणकार्यं निर्धारित-समयसीमायां गुणवत्तया सह सम्पन्नं क्रियताम्। सः उक्तवान् यत् शिक्षाक्षेत्रे आधारभूत-संरचनायाः विकासः सर्वकारस्य प्राथमिकतासु अन्तर्भवति तथा विद्यार्थिभ्यः उत्तम-सुविधानां प्रदाने निरन्तरं प्रयत्नाः क्रियन्ते।
स्थानीय-जनाः तथा विद्यालय-प्रबन्धन-समितेः सदस्याः विकास-कार्याणां शुभारम्भेन हर्षम् अभिव्यक्तवन्तः। ते आशां व्यक्तवन्तः यत् अनेन छात्राः आधुनिकाः उत्तमाश्च शिक्षण-सुविधाः प्राप्स्यन्ति।
Hindusthan Samachar / Divya Ranjan