Enter your Email Address to subscribe to our newsletters

शिमलानगरम्, २७ जूनमास: (हि.स.)। हिमाचलप्रदेशे गरीबी-रेखायाः अधः (बीपीएल) जीवनयापनं कुर्वतां परिवाराणां नूतनसूचीनिर्माणस्य प्रक्रिया आरब्धा अस्ति। अस्मिन् वर्षे सामाजिक-आर्थिकदृष्ट्या अत्यन्तं दुर्बलपरिवारेषु विशेषं ध्यानं केन्द्रितम् अस्ति।
ग्रामीणविकास-पञ्चायतीराज-विभागेन निर्गत-निर्देशानुसारम् अष्टमे चरणे तेषां परिवाराणां बीपीएल-सूच्यां समावेशस्य अवसरः भविष्यति, येषु २७ वर्षात् न्यूनवयस्काः अनाथबालकाः सन्ति, अथवा येषां सर्वे सदस्याः ५९ वर्षात् अधिकवयस्काः सन्ति तथा २७–५९ वर्षवयस्कः कश्चिदपि सदस्यः नास्ति। नूतना बीपीएल-सूची १५ जुलाई-दिने प्रकाशिष्यते।
नूतनव्यवस्थायां गम्भीररोगैः दिव्याङ्गतया च प्रभावितपरिवाराणामपि विशेषसाहाय्यस्य व्यवस्था कृता अस्ति। विभागस्य अनुसारं यस्य परिवारस्य मुखियः ४० प्रतिशताधिक-दिव्याङ्गः अस्ति, सः पात्रताश्रेण्यां भविष्यति। अपि च यस्य परिवारस्य उपार्जनक्षमः सदस्यः कर्कटरोगेण, अल्झाइमर-रोगेण, पार्किन्सन-रोगेण, मस्कुलर-डिस्ट्रॉफी, हीमोफीलिया, थैलेसीमिया अथवा अन्येन गम्भीररोगेण स्थायिरूपेण अक्षमः जातः अस्ति, तादृशपरिवाराः अपि बीपीएल-सूच्यां समावेशाय आवेदनं कर्तुं शक्नुवन्ति। एतेषां परिवाराणाम् उपचार-जीविकयोः अतिरिक्तभारं दृष्ट्वा विशेष-सहायतायाः आवश्यकता स्वीकृता अस्ति।
भूमिहीनपरिवाराः तथा मनरेगा-कार्यक्रमे आश्रितपरिवाराः अपि अस्मिन् प्रक्रियायां समाविष्टाः सन्ति। येषां परिवाराणां सर्वे वयस्कसदस्याः गत-वित्तीयवर्षे मनरेगा-योजनायाः अन्तर्गतं न्यूनातिन्यूनम् एकदिनं कार्यं कृतवन्तः, ते अपि पात्राः मन्यन्ते। विभागस्य मतानुसारम् एतत् व्यवस्थापनं तेषां परिवाराणां कृते कृतम् अस्ति, येषां आयस्रोतांसि अत्यल्पानि सन्ति तथा ये ग्रामीण-अर्थव्यवस्थायाः अधस्तनस्तरे जीवनं यापयन्ति।
तथापि पात्रतायाः सह कठोराः नियमाः अपि निर्धारिताः सन्ति। आयकरदातारः परिवाराः अथवा येषां वार्षिक-आयः ७५ सहस्र-रूप्यकात् अधिका अस्ति, ते सूच्याः बहिः स्थाप्यन्ते। एवं च यदि परिवारस्य कश्चन सदस्यः शासकीय-अर्धशासकीय- अथवा निजी-क्षेत्रे सेवायां नियोजितः अस्ति, तर्हि सः परिवारः बीपीएल-पात्रतां न प्राप्स्यति।
विभागेन एतदपि स्पष्टीकृतं यत् केवलम् आवेदनं कृत्वा अथवा पात्रताशर्ताः पूरयित्वा कस्यचित् परिवारस्य नाम स्वयमेव सूच्यां न समावेश्यते। सर्वेषाम् आवेदनानां ग्राम-विकासखण्ड- तथा जनपदस्तरे सत्यापनं भविष्यति। आवेदन-सत्यापन- तथा अनुशंसाप्रक्रिया ५ जुलाईपर्यन्तं सम्पन्ना भविष्यति, अन्तिमा च बीपीएल-सूची १५ जुलाई-दिने प्रकाशिता भविष्यति।
Hindusthan Samachar / Divya Ranjan