मुख्यमन्त्री-आईटी-फेलोशिप-२०२६ कृते आवेदनस्य अन्तिमतिथिः ७ जुलाईपर्यन्तं विस्तृता
रायपुरम्, २७ जूनमासः (हि.स.)। छत्तीसगढ-सर्वकारेण सञ्चाल्यमानस्य मुख्यमन्त्री-आईटी-फेलोशिप-२०२६ कार्यक्रमस्य अन्तर्गतं एम.टेक. पाठ्यक्रमे प्रवेशार्थम् अन्तर्जाल-आवेदनस्य अन्तिमतिथिः ७ जुलाई २०२६ पर्यन्तं विस्तृता अस्ति। पूर्वं आवेदनस्य अन्तिमतिथिः १
मुख्यमन्त्री-आईटी-फेलोशिप-२०२६ कृते आवेदनस्य अन्तिमतिथिः ७ जुलाईपर्यन्तं विस्तृता


रायपुरम्, २७ जूनमासः (हि.स.)। छत्तीसगढ-सर्वकारेण सञ्चाल्यमानस्य मुख्यमन्त्री-आईटी-फेलोशिप-२०२६ कार्यक्रमस्य अन्तर्गतं एम.टेक. पाठ्यक्रमे प्रवेशार्थम् अन्तर्जाल-आवेदनस्य अन्तिमतिथिः ७ जुलाई २०२६ पर्यन्तं विस्तृता अस्ति। पूर्वं आवेदनस्य अन्तिमतिथिः १ जुलाई इति निर्धारिता आसीत्।

अयं कार्यक्रमः नवा-रायपुरस्थिते आईआईआई-एनआर-संस्थाने सञ्चालितः भविष्यति। अस्य अन्तर्गतं चयनितेभ्यः विद्यार्थिभ्यः प्रतिमासं ५०,००० रुप्यकाणां फेलोशिप प्रदास्यते। तेषां शिक्षण-शुल्कस्य सम्पूर्णः व्ययः अपि छत्तीसगढ-सर्वकारेण वहिष्यते।

सर्वकारेण प्रदत्तानुसारं मुख्यमन्त्री-आईटी-फेलोशिप-कार्यक्रमस्य वैशिष्ट्यमिदं यत् विद्यार्थिनः उच्चस्तरीयां तकनीकी-शिक्षां प्राप्य राज्यसर्वकारस्य विविधेषु विभागेषु वास्तविक-परियोजनासु कार्यकर्तुम् अवसरं प्राप्स्यन्ति। अनेन प्रतिभाशालिनः यूनः आर्टिफिशियल-इण्टेलिजेन्स तथा डाटा-साइन्स-क्षेत्रे व्यावहारिकम् अनुभवम् अवाप्स्यन्ति तथा शासनस्य डिजिटल-सेवासु नवाचार-आधारित-उपक्रमेषु च योगदानं दातुं अवसरं लप्स्यन्ते।

ये इच्छुकाः अभ्यर्थिनः छत्तीसगढस्य मूलनिवासिनः सन्ति, ते ७ जुलाई २०२६ पर्यन्तम् अन्तर्जाल-माध्यमेन आवेदनं कर्तुं शक्नुवन्ति। अस्मिन् विषये विस्तृतसूचनां आवेदन-प्रक्रियां च आईआईआई-एनआर-संस्थानस्य अन्तर्जाल-पुटे अवलोकयितुं शक्यते।

Hindusthan Samachar / Divya Ranjan