Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २७ जूनमासः (हि.स.)। उत्तरप्रदेशस्य अयोध्यानगरे श्रीराममन्दिरस्य दान-सम्बद्ध-विवादस्य मध्ये श्रीरामजन्मभूमि-तीर्थक्षेत्र-न्यासस्य कोषाध्यक्षः स्वामी गोविन्ददेवगिरिः उक्तवान् यत् महामन्त्री-चम्पतरायस्य न्यासी अनिलमिश्रस्य च त्यागपत्रं प्राप्तम्। तेन उक्तं यत् न्यासः अस्मिन् विषये स्वस्य अग्रिम-सभायां विचारं करिष्यति।
न्यासस्य कोषाध्यक्षः स्वामी गोविन्ददेवगिरिः शनिवासरे प्रकाशितायां विज्ञप्तौ उक्तवान् यत् श्रीराममन्दिरे गत-कतिपय-दिनेषु श्रुताभिः घटनाभिः वयं स्तब्धाः, आहताः अत्यन्तं दुःखिताश्च अभवाम। समस्त-रामभक्तानां रामसेवकानां च प्रतिनिधित्वेन अत्र सेवां कुर्वन्तः वयं अस्य विषयस्य न्यायोचित-अन्वेषणं रामभक्तानां आश्वासनं च दातुं प्रतिबद्धाः स्मः। न्यासेन स्पष्टतया उक्तं यत् महामन्त्री चम्पतरायतः न्यासिनः अनिलमिश्रात् च त्यागपत्रं प्राप्तम्, यस्मिन् विषये अग्रिम-सभायां विचारः भविष्यति।
कोषाध्यक्षः गोविन्ददेवगिरिः रामभक्तान् आश्वासितवान् यत् ये भक्ताः रजत-इष्टिकाः, आभरणानि तथा अन्यानि समर्पणीय-वस्तूनि प्रभोः श्रीरामस्य सेवार्थं न्यासस्य अधिकारिभ्यः प्रत्यक्षरूपेण समर्पितवन्तः, तानि सर्वाणि वस्तूनि सुरक्षितानि सम्यक्-लेखासहितानि च सन्ति।
तेन पुनरुक्तं यत् मन्दिरस्य दानपात्रेभ्यः प्राप्त-धनराशेः घटनासम्बन्धे न्यासस्य निवेदनानुसारम् उत्तरप्रदेश-सर्वकारेण गठितस्य विशेष-अन्वेषण-दलस्य अन्तरिम-प्रतिवेदनस्य आधारेण न्यासेन प्राथमिकी अभिलेखिता अस्ति तथा तस्मिन् वैधानिकी कार्यवाही प्रवर्तते। वयं सर्वान् आश्वासयामः यत् भविष्ये एतादृशी दुर्भाग्यपूर्णा स्थितिः पुनः न भवेत् इति सुनिश्चितं करिष्यामः। अपराधिनः विधिसम्मतं कठोर-दण्डं प्राप्नुयुरिति वयम् आग्रहं धारयामः।
कोषाध्यक्षेन उक्तं यत् केचन असामाजिकाः, अधार्मिकाः स्वार्थपराश्च तत्त्वानि अस्य सम्पूर्ण-विवादस्य आच्छादनेन सनातन-धर्मस्य लाञ्छनं कर्तुं प्रयतन्ते, किन्तु तेषां प्रयासः सफलः न भविष्यति।
अन्ते तेन सर्वेभ्यः अनुरोधः कृतः यत् सामाजिक-माध्यमेषु अथवा अन्य-माध्यमेषु प्रसार्यमाणेभ्यः भ्रामक-निराधार-दुष्प्रचारेभ्यः स्वयमपि रक्षन्ताम्, अपरानपि तासां प्रभावात् रक्षन्तु। न्यासस्य विश्वासः अस्ति यत् विवादस्य एते मेघाः शीघ्रमेव अपगमिष्यन्ति तथा सत्यस्य प्रकाशः सर्वेषां पुरतः प्रकटिष्यते।
Hindusthan Samachar / Divya Ranjan