Enter your Email Address to subscribe to our newsletters

नवदेहली, २७ जूनमासः (हि.स.)। अन्ताराष्ट्रिय-सूक्ष्म-लघु-मध्यम-उद्यम-दिवसस्य अवसरे शनिवासरे देहल्याः मुख्यमन्त्री रेखागुप्ता, हरियाणायाः मुख्यमन्त्री नायबसिंहसैनी तथा अन्यैः अनेकैः नेतृभिः देशस्म उद्यमिभ्यः, नवोद्यमिभ्यः, शिल्पिभ्यः श्रमिकेभ्यश्च शुभकामनाः प्रदत्ताः। तैः एमएसएमई-क्षेत्रं देशस्य अर्थव्यवस्थायाः सुदृढाधारः इति निरूपितम्।
मुख्यमन्त्री रेखागुप्ता सामाजिक-माध्यमे 'एक्स' इत्यत्र स्वसन्देशे उक्तवती यत् एमएसएमई-क्षेत्रं रोजगार-सृजने, नवाचारस्य प्रोत्साहने तथा विकसित-भारत-निर्माणे महत्त्वपूर्णां भूमिकां निर्वहति। प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे एमएसएमई-क्षेत्रस्य सशक्तीकरणाय क्रियमाणाः प्रयत्नाः भारतस्य आर्थिक-प्रगतिं स्वावलम्बनं च नूतनां गतिं प्रददति।
हरियाणायाः मुख्यमन्त्री नायबसिंहसैनी प्रदेशस्य सर्वेभ्यः उद्यमिभ्यः, नवोद्यमेभ्यः, शिल्पिभ्यः श्रमिकेभ्यश्च शुभकामनाः प्रदाय उक्तवान् यत् एमएसएमई-क्षेत्रं नवाचारस्य, स्वावलम्बनस्य तथा यूनां कृते रोजगारस्य नूतनावसराणां सृजने महत्त्वपूर्णां भूमिकां निर्वहति। सः विकसित-हरियाणा तथा विकसित-भारत-निर्माणाय उद्यमितायाः प्रोत्साहनस्य आह्वानम् अकरोत्।
देहल्याः स्वास्थ्य-परिवार-कल्याण-परिवहन-सूचना-प्रौद्योगिकीमन्त्री पङ्कजकुमारसिंहः अवदत् यत् एमएसएमई-क्षेत्रं भारतस्य अर्थव्यवस्थायाः आधारशिला अस्ति, यत् स्थानीयोद्योगानां संवर्धने, नवाचारस्य प्रोत्साहने तथा आत्मनिर्भर-भारत-सङ्कल्पस्य साकारीकरणे महत्त्वपूर्णं योगदानं ददाति।
देहल्याः लोकनिर्माण-विभागस्य मन्त्री प्रवेशसाहिबसिंहः अपि एमएसएमई-दिवसस्य अवसरे देशभरस्य उद्यमिभ्यः शुभकामनाः प्रदाय अवदत् यत् प्रधानमन्त्री मोदिनः नेतृत्वे प्रवर्तिताभिः नीतिभिः सुधारैश्च लक्षशः उद्यमिनः नूतनां गतिं प्राप्तवन्तः। सुदृढम् एमएसएमई-क्षेत्रमेव समृद्धस्य, आत्मनिर्भरस्य विकसितस्य च भारतस्य महत्तमा शक्तिः भविष्यति।
Hindusthan Samachar / Divya Ranjan