Enter your Email Address to subscribe to our newsletters

नवदेहली, २८ जूनमास: (हि.स.)। प्रथमविश्वयुद्धस्य अनन्तरं मित्रराष्ट्राणां जर्मनीदेशस्य च मध्ये १९१९ तमवर्षस्य जूनमासस्य २८ दिनाङ्के फ्रान्सदेशस्य वर्साय-प्रासादे महत्त्वपूर्णायाः शान्ति-सन्धेः हस्ताक्षराणि अभवन्। अनेन सन्धिना युद्धस्य औपचारिकसमाप्तिः अभवत्, किन्तु अस्याः अत्यन्तकठोराः शर्ताः द्वितीयविश्वयुद्धस्य पृष्ठभूमिं निर्मितवन्तः।
अस्याः सन्धेः कठोरप्रावधानानुसारं प्रथमविश्वयुद्धस्य सम्पूर्णदायित्वं केवलं जर्मनीदेशस्य उपरि आरोपितम्। युद्धजनितहानिपूर्त्यर्थं तस्मै प्रायः १३२ अर्बुद-स्वर्णमार्क-परिमितः विशालः दण्डः आरोपितः। तेन सह जर्मनीदेशः स्वस्य भूभागस्य प्रायः त्रयोदशप्रतिशतं तथा जनसङ्ख्यायाः दशप्रतिशतं भागं न्यवर्तयत्। एल्सास-लोरेन-प्रदेशः पुनः फ्रान्सदेशाय प्रदत्तः, पोलैण्डदेशाय च मार्गविशेषः प्रदत्तः, येन जर्मनीदेशः द्विधा विभक्तः अभवत्। तस्य सैन्यशक्तिरपि अत्यन्तं सीमिता कृता। सेनायाः संख्या केवलं लक्षमात्रं सैनिकान् यावत् सीमिता अभवत्, गुरुतोपानां, पनडुब्बीनां च निषेधः कृतः, वायुसेनां धारयितुमपि अनुमतिः न प्रदत्ता।
एषा सन्धिः जर्मनीदेशस्य कृते अत्यन्तम् अपमानजनका आसीत्। ‘बलात् आरोपिता शान्तिः’ इति मन्यमानाः जर्मन-नागरिकाः तीव्रेण रोषेण परिपूर्णाः अभवन्। अस्यैव अपमानस्य प्रतिशोधभावना एडोल्फ-हिटलरस्य नाजीवादस्य च उदये महत्त्वपूर्णां भूमिकाम् अवहत्, या अन्ततः द्वितीयविश्वयुद्धस्य कारणम् अभवत्।
प्रमुखाः घटनाः
१९१९ — वर्साय-शान्ति-सन्धेः हस्ताक्षराणि अभवन्।१९९९ — रूमानियादेशेन स्ववायुसेनायां रूसी-विमानानां उड्डयनं निषिद्धम्।२००३ — इस्रायल-फिलिस्तीन-देशौ पश्चिम-एशियायां रक्तपात-निरोधाय उपायान् स्वीकृतवन्तौ।२००४ — अमेरिकी-गठबन्धन-सेनया इराकस्य अन्तरिम-शासनाय सार्वभौमाधिकारः समर्पितः।२००५ — रूसदेशेन ईरानदेशस्य कृते षट् परमाणु-रिएक्टर-निर्माणस्य घोषणा कृता।२००७ — जापानदेशस्य पूर्वप्रधानमन्त्री कीचि-मियाजावा-महोदयस्य निधनम्।२००८ — बैंक-ऑफ्-इण्डिया-अध्यक्षः टी. एस.नारायणस्वामी भारतीय-धनागार-सङ्घस्य अध्यक्षत्वेन निर्वाचितः।२००८ — वेतन-आयोगेन पत्रकारेभ्यः तथा अन्यकर्मचारिभ्यः मूलवेतनस्य ३० प्रतिशत-अन्तरिम-शिथिलताया: अनुशंसा कृता।२००८ — लण्डन-नगरे आयोजिते समारोहे नासिरा-शर्मा-महोदयायै ‘कुइयाँ जान’ इति उपन्यासस्य कृते चतुर्दशम् अन्ताराष्ट्रिय-इन्दुशर्मा-कथा-सम्मानं प्रदत्तम्।२०१० — हावडा-कुर्ला-लोकमान्य-तिलक-ज्ञानेश्वरी-सुपर-डीलक्स-एक्स्प्रेस्-यानस्य १३ डिब्बाः पश्चिमबङ्गस्य मिदनापुर-जनपदे पटरीतः अपसृताः। ततः विपरीतदिशः आगच्छन्त्या वस्तुवाहकवाहनेन सह भीषणः संघर्षः अभवत्, यस्मिन् १४९ यात्रिकाः मृताः, शताधिकाश्च आहताः।
जन्म-दिवसाः
१८८३ — शिवप्रसाद-गुप्तः, ‘दैनिक आज’ समाचारपत्रस्य संस्थापकः, प्रसिद्धः क्रान्तिकारिणश्च।१९२१ — पी.वी.नरसिंहरावः, भारतस्य पूर्वप्रधानमन्त्री।१९६० — प्रह्लादसिंह-पटेलः, भारतीयजनता-पक्षस्य वरिष्ठः राजनीतिज्ञः।१९७६ — जसपाल-राणा, भारतस्य विख्यातः लक्ष्यभेदक:।१९९५ — मरियप्पन् थंगावेलुः, भारतस्य उच्चकूद-क्रीडकः।
निधनानि
१९७२ — पी. सी. महालनोबिसः, भारतस्य प्रसिद्धः वैज्ञानिकः सांख्यिकीविद् च।१९९९ — कैप्टन् नीकेझाकू, ‘महावीर-चक्र’-सम्मानितः भारतीय-सेनायाः अधिकारी।२०१२ — अमर-गोस्वामी, भारतस्य प्रसिद्धः साहित्यकारः उपन्यासकारश्च।
महत्त्वपूर्णः दिवसः
गरीब-दिवसः (पूर्वप्रधानमन्त्रिणः पी.वी.नरसिंहरावस्य जन्मदिवसः)।
Hindusthan Samachar / Divya Ranjan