Enter your Email Address to subscribe to our newsletters

जम्मू, २७ जूनमासः (हि.स.)। जम्मूनगरे आयोजिते काङ्ग्रेसपक्षस्य पत्रकारसम्मेलने अखिलभारतीय-काङ्ग्रेस-समितेः जम्मू-कश्मीर-विषयक-सहप्रभारी परगटसिंहः तथा दिव्या-मदेरणा देशस्य शिक्षाव्यवस्थां प्रति केन्द्रसर्वकारं प्रश्नान् अपृच्छताम्।
ताभ्यां उक्तं यत् वर्तमानकाले देशस्य शिक्षाव्यवस्था गम्भीरसङ्कटस्य अवस्थायां वर्तते, तस्याः स्थितिः सघन-चिकित्सा-कक्ष इव जाता अस्ति।
ताभ्यां आरोपितं यत् निरन्तरं परीक्षासु अनियमितताभिः नीतिगत-दोषैश्च छात्राणां भविष्यं प्रतिकूलतया प्रभावितं भवति। काङ्ग्रेस-नेतारौ शिक्षाव्यवस्थायां पारदर्शिता, उत्तरदायित्वं व्यापकसुधाराश्च आवश्यकाः इति प्रतिपाद्य सर्वकारात् छात्रहितस्य संरक्षणार्थं प्रभावकाणि पदानि स्वीकर्तुम् आग्रहम् अकुरुताम्।
Hindusthan Samachar / Divya Ranjan