Enter your Email Address to subscribe to our newsletters



रायपुरम्, २७ जूनमासः (हि.स.)। उपमुख्यमन्त्री विजयशर्मा नारायणपुर-प्रवासस्य अवसरे पुनर्वास-केन्द्रम् उपगम्य हिंसामार्गं परित्यज्य मुख्यधारायां समागतैः युवभि: सह आत्मीयसंवादम् अकरोत्। अस्मिन् अवसरे वन-पर्यावरणमन्त्री केदारकश्यपः अपि उपस्थितः आसीत्। उभाभ्यां मन्त्रिभ्यां पुनर्वास-केन्द्रे प्रदीयमानानां सुविधानां, प्रशिक्षणस्य तथा रोजगारस्य सम्भावनानां विषये युवभि: सह चर्चा कृता, तान् च विकासस्य मुख्यधारायां सक्रियसहभागितां कर्तुं प्रेरितवन्तौ।
उपमुख्यमन्त्री शर्मा यून: आधार-पत्रस्य, राशन-पत्रस्य, आयुष्मान-पत्रस्य, धनागार-लेखस्य तथा अन्येषां आवश्यक-कर्गदानां शासकीय-सुविधानां च उपलब्धतायाः विषये अपृच्छत्। सः अवदत् यत् शासनस्य उद्देश्यं प्रत्येकं पुनर्वासितस्य युवकस्य युवत्यश्च सम्मानपूर्णजीवनं स्वावलम्बित्वं च सुनिश्चित्य सर्वाः आवश्यकसुविधाः प्रदातुमस्ति।
पूर्वसहचरान् प्रेरयितुम् आह्वानम्
गृहमन्त्री शर्मा यून: अवदत् यत् ते कारागारे निरुद्धान् स्वपूर्वसहचरान् मिलित्वा तानपि पुनर्वास-योजनायाः लाभं स्वीकर्तुं समाजस्य मुख्यधारायां सम्बद्धुं च प्रेरयेयुः। सः उक्तवान् यत् विकासस्य शान्तेश्च मार्गः एव बस्तर-प्रदेशस्य उज्ज्वल-भविष्यस्य आधारः अस्ति।
उपमुख्यमन्त्री केन्द्रे प्रवर्तमानस्य कौशल-विकास-प्रशिक्षणस्य अपि सूचनाम् अलभत। महिलाभिः मोटरयान-चालन-प्रशिक्षणं प्राप्य स्वावलम्बित्वस्य दिशि क्रियमाणस्य प्रयासस्य सः प्रशंसाम् अकरोत्।
चर्चायां यूनैः कृषिक्षेत्रेषु सिञ्चनार्थं नलकूपस्य आवश्यकता निवेदिता। अस्मिन् विषये शर्मा अधिकारिणः निर्देशितवान् यत् बलिदानी-परिवाराणां पुनर्वासित-यूनां च सर्वेक्षणं कारयित्वा तेषां क्षेत्रेषु समुचित-सिञ्चन-व्यवस्था सुनिश्चितीक्रियताम्, येन ते कृष्या स्थाय्याजीविकां प्राप्तुं शक्नुयुः।
उपमुख्यमन्त्री उक्तवान् यत् मुख्यमन्त्रिणः विष्णुदेवसायस्य नेतृत्वे पेसा-अधिनियमः अधिकप्रभावीकरणाय निरन्तरं कार्यं क्रियते। बस्तर-प्रदेशस्य जनप्रतिनिधयः आदिवासी-समाजात् सन्ति तथा क्षेत्रस्य विकासाय निरन्तरं प्रयतन्ते। सः यून: सामाजिक-माध्यमेषु प्रसार्यमाणाभ्यः भ्रामक-सूचनाभ्यः सावधानाः भवितुम् उक्तवान् तथा शासनस्य योजनानां लाभं अन्तिमजनपर्यन्तं प्रापयितुं सहभागिनः भवितुम् आहूतवान्।
बस्तरस्य शान्ति-विकासयोः नूतना दिशा प्रदातुं समयः — केदारकश्यपः
वन-पर्यावरणमन्त्री केदारकश्यपः अवदत् यत् स्वतन्त्रता-सङ्ग्रामात् आरभ्य बस्तर-निर्माणपर्यन्तम् आदिवासी-समाजस्य योगदानम् अत्यन्तं महत्त्वपूर्णम् आसीत्। अधुना बस्तरस्य शान्ति-विकास-समृद्धीनां नूतनां दिशां प्रदातुं समयः आगतः। हिंसां परित्यज्य मुख्यधारायां समागतैः युवभि: अस्य परिवर्तनस्य शुभारम्भः कृतः। अधुना सर्वैः मिलित्वा क्षेत्रस्य समाजस्य च समग्र-विकासाय कार्यं करणीयम्।
अस्मिन् अवसरे आरक्षक-महानिरीक्षकः सुन्दरराज पी., कांकेर-जनपदस्य समाहर्ता निलेशकुमार-महादेव-क्षीरसागरः, नारायणपुरस्य आरक्षक-अधीक्षकः रॉबिन्सन-गुरिया तथा जनपद-प्रशासनस्य, आरक्षक-विभागस्य सम्बद्ध-विभागानां च वरिष्ठ-अधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan