नागरिक-कल्याण-जागरूक-विकास-समित्याः नगरीय-समस्यानां विषये चर्चाः, शीघ्र-समाधानस्य च आग्रहः
पौडी-गढवालम्, २७ जूनमासः (हि.स.)। नागरिक-कल्याण-जागरूक-विकास-समित्याः आयोजितायां सभायां नगरस्य विविध-समस्यानां विषये विस्तृता चर्चा अभवत्। अस्मिन् अवसरे बहवः प्रस्तावाः स्वीकृताः, तथा शासन-प्रशासनयोः समक्षं नगरस्य समस्यानां शीघ्र-समाधानस्य आग्रहः क
नागरिक-कल्याण-जागरूक-विकास-समित्याः नगरीय-समस्यानां विषये चर्चाः, शीघ्र-समाधानस्य च आग्रहः


पौडी-गढवालम्, २७ जूनमासः (हि.स.)। नागरिक-कल्याण-जागरूक-विकास-समित्याः आयोजितायां सभायां नगरस्य विविध-समस्यानां विषये विस्तृता चर्चा अभवत्। अस्मिन् अवसरे बहवः प्रस्तावाः स्वीकृताः, तथा शासन-प्रशासनयोः समक्षं नगरस्य समस्यानां शीघ्र-समाधानस्य आग्रहः कृतः।

पौडी-नगरे आयोजितायां सभायां समितेः पदाधिकारीभिः संस्था-परिसरे स्थितस्य घण्टाघर-इत्यस्य नाम समाजसेविनः तथा पूर्व-नगरपालिकाध्यक्षस्य स्वर्गीय-कुञ्जीबिहारी-महोदयस्य नाम्ना नामकरणं कर्तुं, तत्र तस्य प्रतिमायाः स्थापनां च कर्तुम् आग्रहः कृतः। एतदर्थं शीघ्रमेव प्रस्तावः नगरपालिकायै प्रेषयिष्यते इति ते अवदन्।

सभायां खाण्डयूसैंण-समीपे स्थिते दिवार-ग्रामे निर्माणाधीनायाः एन.सी.सी.-अकादम्याः निर्माणकार्यं शीघ्रं सम्पादयितुमपि शासनं प्रति आग्रहः कृतः। तथा कण्डोलिया-क्रीडाङ्गणस्य समीपे मार्गस्य पार्श्वे जलसञ्चय-प्रपायाः निर्माणस्य आवश्यकता अपि प्रतिपादिता।

पदाधिकारीणः अवदन् यत् कण्डोलिया-क्षेत्रात् रांसी-क्रीडाङ्गणं प्रति गच्छन् मार्गः रात्रौ अन्धकारपूर्णः भवति। तेन अभ्यासार्थं गच्छद्भिः युवकैः बहवः क्लेशाः अनुभूयन्ते। अतः तस्मिन् मार्गे मार्गदीपानां स्थापनार्थं नगरपालिकां प्रति निवेदनम् अकुर्वन्।

अस्यां सभायां समितेः अध्यक्षः रघुवीरसिंह-रावतः, गिरीश-बडथ्वालः, गबरसिंह-नेगी, प्रशान्त-नेगी, भगवानसिंह-नेगी, मकान-सिंह-रावतः, प्रवेन्द्रसिंह-बिष्टः, ऋषभ-नेगी, पुष्कर-रावतः, वीरेन्द्रसिंहश्च इत्यादयः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan