सिलीगुडी-नगरे एजुकेशन-फेयर-२०२६ इत्यस्य आयोजनम्, पर्यटनमन्त्री शङ्करघोषः सहभागी
सिलीगुडीनगरम्, २७ जूनमासः (हि.स.)। उच्च-माध्यमिक-परीक्षायाः परिणाम-घोषणानन्तरं विद्यार्थिनां पालकानां च मनसि उच्च-शिक्षां भविष्यत्-जीवनवृत्तिं च प्रति चिन्ता वर्धिता अस्ति। कस्मिन् विषये अध्ययनं करणीयम्, केन विश्वविद्यालयेन चयनं करणीयम् इत्यादीनां
एजुकेशन फेयर में शामिल राज्य के पर्यटन मंत्री शंकर घोष शिक्षाविदों से बात करते हुए


सिलीगुडीनगरम्, २७ जूनमासः (हि.स.)। उच्च-माध्यमिक-परीक्षायाः परिणाम-घोषणानन्तरं विद्यार्थिनां पालकानां च मनसि उच्च-शिक्षां भविष्यत्-जीवनवृत्तिं च प्रति चिन्ता वर्धिता अस्ति। कस्मिन् विषये अध्ययनं करणीयम्, केन विश्वविद्यालयेन चयनं करणीयम् इत्यादीनां प्रश्नानाम् उत्तराणि प्रदातुं सिलीगुडीनगरे एकदिवसीयस्य ‘प्री-काउन्सेलिङ्ग् एण्ड् एजुकेशन-फेयर-२०२६’ इत्यस्य आयोजनम् अभवत्। शनिवासरे सिलीगुडी-नगरस्य कोर्टयार्ड् बाय् मैरियट्-होटेल-इत्यत्र आयोजितस्य अस्य शिक्षा-मेलापकस्य आयोजनं पश्चिमबङ्ग-व्यावसायिक-शैक्षणिक-संस्थानानां सङ्घेन कृतम्।

अस्मिन् शिक्षा-मेलापके देशस्य विभिन्न-प्रदेशेभ्यः आगताः पञ्चाशदधिकाः प्रतिष्ठित-विश्वविद्यालयाः, महाविद्यालयाः तथा शैक्षणिक-संस्थाः सहभागिनः अभवन्। अत्र विद्यार्थिभ्यः विविध-पाठ्यक्रमाणां, प्रवेश-प्रक्रियायाः, छात्रवृत्तेः, नियुक्त्यवसराणां च विषये एकस्मिन्नेव स्थले विस्तृता सूचना प्राप्तुं अवसरः प्राप्तः। कार्यक्रमस्य उद्घाटनावसरे राज्यस्य पर्यटनमन्त्री शङ्करघोषेण सह अनेके प्रशासनिक-अधिकारिणः शिक्षाविदश्च उपस्थिताः आसन्।

पर्यटनमन्त्री शङ्करघोषः विद्यार्थिनः सम्बोधयन् अवदत् यत् राज्यसर्वकारस्य प्रयत्नः अस्ति यत् विद्यार्थिभ्यः उच्च-शिक्षायै अन्येषु राज्येषु विदेशेषु वा गन्तुं आवश्यकता न भवेत्। राज्ये एव अन्ताराष्ट्रिय-स्तरस्य शिक्षा उपलब्धा भवेत् इति उद्दिश्य आधारभूत-संरचनायाः सुदृढीकरणं क्रियते, येन समयस्य धनस्य च उभयोः संरक्षणं भविष्यति।

शिक्षा-मेलापके उपस्थितैः विशेषज्ञैः विद्यार्थिभ्यः स्व-रुचि-योग्यता-भविष्यत्-योजनानुसारं उपयुक्तस्य पाठ्यक्रमस्य चयनार्थं मार्गदर्शनं प्रदत्तम्। तथा च विभिन्न-शैक्षणिक-संस्थानानां प्रति-निधिभिः सह प्रत्यक्ष-संवादेन पालकैः विद्यार्थिभिश्च प्रवेश-प्रक्रियासम्बद्धानां अनेकानां जटिल-प्रश्नानां समाधानम् अपि प्राप्तम्।

शिक्षाविदां मते एतादृशानि आयोजनानि विद्यार्थिनां उज्ज्वल-भविष्य-निर्माणे महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति।

Hindusthan Samachar / Divya Ranjan