फील्डमार्शल-सैम-मानेकशॉ इत्यस्य पुण्यतिथौ राज्यपालेन श्रद्धाञ्जलिः अर्पिता
भुवनेश्वरम्, २७ जूनमासः (हि.स.)। ओडिशा-राज्यस्य राज्यपालः हरिबाबू कम्भमपतिः भारतस्य महतां सैन्यनायकानां मध्ये परिगणितस्य फील्डमार्शल-इत्यस्य सैममानेकशॉ इत्यस्य पुण्यतिथौ तस्मै भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। सः अवदत् यत् मानेकशॉ-महोदयस्य शौर्
फील्ड मार्शल सैम मानेकशॉ की पुण्यतिथि पर राज्यपाल ने दी श्रद्धांजलि


भुवनेश्वरम्, २७ जूनमासः (हि.स.)। ओडिशा-राज्यस्य राज्यपालः हरिबाबू कम्भमपतिः भारतस्य महतां सैन्यनायकानां मध्ये परिगणितस्य फील्डमार्शल-इत्यस्य सैममानेकशॉ इत्यस्य पुण्यतिथौ तस्मै भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। सः अवदत् यत् मानेकशॉ-महोदयस्य शौर्यम्, सामरिक-कौशलम् तथा अचलं नेतृत्वं देशस्य इतिहासस्य दिशां निर्धारयितुं निर्णायकम् अभवत्।

राज्यपालेन सामाजिक-माध्यमेषु प्रकाशिते स्वसन्देशे उक्तं यत् फील्डमार्शलः सैम-मानेकशॉ वीरतायाः, सत्यनिष्ठायाः तथा निःस्वार्थ-राष्ट्रसेवायाः अद्वितीयः प्रतीकः आसीत्। तस्य प्रेरणादायकं जीवनम् उत्कृष्टं सैन्य-नेतृत्वं च अद्यापि देशवासिनां भाविवंशानां च कृते प्रेरणास्रोतः वर्तते।

सः अवदत् यत् राष्ट्रं तस्य अमूल्य-सेवानां अतुलनीय-योगदानस्य च सदा कृतज्ञतया स्मरणं करिष्यति तथा तस्य गौरवशालिनी परम्परा देशं निरन्तरं प्रेरयिष्यति।

Hindusthan Samachar / Divya Ranjan