Enter your Email Address to subscribe to our newsletters

गुरुग्राम:, २८ जूनमासः (हि.स.)। गुरुग्राम-नगरस्य डॉ.आर.एस.यादवः भूटानदेशे ‘भारत-भूटान-शान्ति-रत्न-पुरस्कारेण’ सम्मानितः। भारतीय-प्रतिनिधिमण्डलस्य सदस्यत्वेन उपस्थितं डॉ. यादवं भूटान-सर्वकारस्य पूर्व-आर्थिक-कार्यमन्त्री लोकनाथ-शर्मा इत्यनेन एषः पुरस्कारः प्रदत्तः। अस्मिन् समारोहे भारतस्य एकचत्वारिंशत् विशिष्ट-प्रतिभाः अपि ‘भारत-भूटान-शान्ति-रत्न-पुरस्कारेण’ सम्मानिताः।
भूटानदेशस्य संसद्भवने भारतीय-प्रतिनिधिमण्डलस्य सदस्यैः सह भूटानस्य विदेशमन्त्रिणा चायोपवेशन-चर्चा कृता। चर्चायां विदेशमन्त्री उक्तवान् यत् सः हरियाणा-राज्यस्य रोहतक-नगरे शिक्षां प्राप्तवान्।
अन्ताराष्ट्रिय-समरसता-मञ्चस्य सान्निध्ये अन्ताराष्ट्रिय-योग-दिवसस्य अवसरे भूटानदेशस्य राजधानी थिम्फू-नगरे आयोजिते कार्यक्रमे भूटानस्य विदेशमन्त्री डी.एन.डुङ्गयालः भारतीय-प्रतिनिधिमण्डलस्य हार्दिकं स्वागतं कृत्वा विशेष-संवादम् अकरोत्।
राजनयिक-सम्बन्ध-वियना-अभिसमयः (१९७२) तथा भारत-भूटान-शान्ति-मैत्री-सन्धिः (१९४९) इत्यनयोः भावनानुसारम् अन्ताराष्ट्रिय-समरसता-मञ्चस्य तत्त्वावधाने आयोजिते अस्मिन् समारोहे डॉ. आर.एस. यादवः ‘भारत-भूटान-शान्ति-रत्न-पुरस्कारेण’ सम्मानितः। वसुधैव-कुटुम्बकम्, ‘सत्यम् शिवम् सुन्दरम्’ इत्यस्य च वैश्विक-प्रचाराय, सामाजिक-क्षेत्रे उत्कृष्ट-अतुलनीय-योगदानाय च तस्मै एतत् सम्मानं प्रदत्तम्।
डी.एन. डुङ्गयालस्य अध्यक्षतायां तथा अन्ताराष्ट्रिय-समरसता-मञ्चस्य संयोजकस्य अधिवक्ता कुलदीप-प्रसाद-शर्मणः उपस्थितौ डॉ.आर.एस.यादवेन सह समस्तं भारतीय-प्रतिनिधिमण्डलं भूटान-सर्वकारस्य विदेश-मन्त्रालयेन संसद्भवने सस्नेहं सत्कृतम्।
डॉ. आर.एस.यादवः अस्य सम्मानस्य कृते अन्ताराष्ट्रिय-समरसता-मञ्चस्य भारत-भूटान-सर्वकारौ प्रति कृतज्ञतां व्यक्तवान्। एषा भारत-भूटान-समरसता-सामाजिक-मिशन-यात्रा सफलतया सम्पन्ना, तथा भारत-भूटान-मैत्री अपि अनेन अधिका सुदृढा अभवत्।
Hindusthan Samachar / Divya Ranjan