Enter your Email Address to subscribe to our newsletters

पौडी-गढवालम्, २७ जूनमास: (हि.स.)। भारतीय-जनता-पक्षस्य पौडी-जनपदकार्यालये अनुसूचित-जाति-मोर्चायाः परिचयात्मक-सभायाः आयोजनम् अभवत्। अस्मिन् अवसरे सङ्गठनस्य सुदृढीकरणाय तथा अधुनैव अग्रिम-विधानसभा-निर्वाचनस्य सज्जीकरणे प्रवर्तितुं कार्यकर्तृभ्यः आह्वानं कृतम्।
शनिवासरे आयोजितायां सभायां जनपद-कार्यकारिण्याः मण्डल-कार्यकारिण्याश्च पदाधिकारीणः सदस्याश्च उपस्थिताः। प्रदेशतः आगतौ प्रभारी मित्रपालः सह-प्रभारी आलोककुमारश्च अग्रिम-विधानसभा-निर्वाचनम् (२०२७) अधिगम्य कार्यकर्तॄन् सम्पूर्णतया सज्जीकर्तुं, तथा शासनस्य जनकल्याण-योजनाः मतदान-केन्द्र-स्तरपर्यन्तं जनसामान्येषु प्रसारयितुं प्रेरितवन्तौ।
अस्यां सभायां विधायकः राजकुमार-पोरी, अनुसूचित-जाति-मोर्चायाः जनपदाध्यक्षः नरेन्द्रप्रसाद-टम्टा, जनपद-महामन्त्री भक्तिशाहः, कल्जीखाल-खण्डप्रमुखा गीता-देवी, जनपद-पञ्चायत-सदस्यः डोभ-श्रीकोट-अनुजकुमारः, पूर्व-पालिकाध्यक्षः राजेन्द्रप्रसाद-टम्टा, नगर-मण्डलाध्यक्षः सुमनदेवी, ग्रामीण-मण्डलाध्यक्षः संजयचन्द्रः, रमेशचन्द्रः, पूनम-टम्टा, दयाल-कोली इत्यादयः अपि उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan