खूण्टिनगरे वैदिक-मन्त्रोच्चारणस्य मध्ये श्रीनारायणी-श्याम-मन्दिरस्य भूमिपूजनम् सम्पन्नम्
खूण्टिनगरम्, २७ जूनमासः (हि.स.)। बेलाहाथी-मार्गे प्रस्तावितस्य श्रीनारायणी-श्याम-मन्दिरस्य निर्माणस्थले शनिवासरे धार्मिक-रीतिभिः वैदिक-मन्त्रोच्चारणेन च सह भूमिपूजनं विधिवत् सम्पन्नम्। भक्तिमय-वातावरणे आयोजितेन अनेन कार्यक्रमेण मन्दिर-निर्माणकार्यस
मंदिर


खूण्टिनगरम्, २७ जूनमासः (हि.स.)। बेलाहाथी-मार्गे प्रस्तावितस्य श्रीनारायणी-श्याम-मन्दिरस्य निर्माणस्थले शनिवासरे धार्मिक-रीतिभिः वैदिक-मन्त्रोच्चारणेन च सह भूमिपूजनं विधिवत् सम्पन्नम्। भक्तिमय-वातावरणे आयोजितेन अनेन कार्यक्रमेण मन्दिर-निर्माणकार्यस्य औपचारिकः शुभारम्भः अभवत्।

भूमिपूजने मुख्ययजमानरूपेण गोपाल-सरावगी-पुत्रः अखिल-सरावगी तस्य पत्नी नेहा-सरावगी च विधिवद् पूजार्चनां कृत्वा बाबा-श्यामस्य आशीर्वादम् अलभेताम्। अस्मिन्नवसरे श्रीश्याम-मण्डलस्य खूण्टि-नगर-शाखायाः पदाधिकरिणः, सदस्याः, श्याम-भक्ताः तथा बहुसंख्यकाः श्रद्धालवः उपस्थिताः आसन्।

कार्यक्रमम् सम्बोधयन् श्रीश्याम-मण्डलस्य नगर-शाखाध्यक्षः मुकुल-पिपरिया अवदत् यत् भूमिपूजनस्य सम्पन्नतया मन्दिर-निर्माणस्य प्रक्रिया आरब्धा अस्ति तथा शीघ्रमेव निर्माणकार्यं प्रारभ्यते। सः उक्तवान् यत् प्रस्तावितं मन्दिरं क्षेत्रस्य श्रद्धालूनां कृते आस्थायाः, भक्तेः तथा सामाजिक-समरसतायाः प्रमुखं केन्द्रं भविष्यति।

तेन उक्तं यत् मन्दिर-परिसरे श्रीखाटू-नरेश-श्याम-बाबा, रानी-सती-दादी तथा सालासर-बालाजी इत्येषां भव्य-मन्दिराणामपि निर्माणं भविष्यति। तस्य मते एषा योजना सनातन-संस्कृतेः संरक्षणाय, धार्मिक-परम्पराणां संवर्धनाय तथा सामाजिक-एकतायाः सुदृढीकरणाय महत्त्वपूर्ण: प्रयत्न: अस्ति।

मुकुल-पिपरिया मन्दिर-निर्माणार्थं भूमिदानं कृतवन्तः पवन-सरावगी, अजय-सरावगी, मनोज-सरावगी, राजेश-सरावगी तथा साकेत-सरावगी इत्येतेभ्यः कृतज्ञतां प्रकटितवान्। तेन उक्तं यत् तेषां सहयोगेन अस्य धार्मिक-परियोजनायाः साकारीकरणस्य मार्गः प्रशस्तः अभवत्।

अस्य कार्यक्रमस्य सफल-आयोजने श्रीश्याम-मण्डलस्य सदस्याः, स्वयंसेवकाः तथा श्रद्धालवः महत्त्वपूर्णं योगदानम् अददुः।

Hindusthan Samachar / Divya Ranjan