एसआईएस-विस्तारस्य विषये राज्यस्तरीय-समितेः सभा एक-जुलाई-दिने
राँचीनगरम्, २७ जूनमासः (हि.स.)। केन्द्रप्रायोजित-विशेष-अवसंरचना-योजना २०२२–२६ इत्यस्याः अवधिं एकवर्षपर्यन्तं विस्तारितुं प्रस्तुतस्य प्रस्तावस्य विषये एक-जुलाई-दिने राज्यस्तरीय-समितेः सभा आयोजिता भविष्यति। आधिकारिक-सूत्रैः शनिवासरे उक्तं यत् एषा सभ
प्रोजेक्ट भवन की फाइल फोटो


राँचीनगरम्, २७ जूनमासः (हि.स.)। केन्द्रप्रायोजित-विशेष-अवसंरचना-योजना २०२२–२६ इत्यस्याः अवधिं एकवर्षपर्यन्तं विस्तारितुं प्रस्तुतस्य प्रस्तावस्य विषये एक-जुलाई-दिने राज्यस्तरीय-समितेः सभा आयोजिता भविष्यति। आधिकारिक-सूत्रैः शनिवासरे उक्तं यत् एषा सभा गृह-कारा-आपदा-प्रबन्धन-विभागस्य अपर-मुख्यसचिवस्य अध्यक्षतायां अपराह्णे सार्ध-त्रिवादने तस्य कार्यालय-कक्षे आयोजिता भविष्यति।

गृह-विभागेन निर्गत-पत्रानुसारं सभायां आरक्षक-मुख्यालयतः अपर-आरक्षक-महानिदेशकः, आरक्षक-महानिरीक्षक: सह नोडल-पदाधिकारी तथा आरक्षक-महानिरीक्षकः सहभागिनः भविष्यन्ति। एतदतिरिक्तं वित्त-विभागस्य सचिवः तथा झारखण्ड-आरक्षक-हाउसिङ्ग-कॉर्पोरेशन-लिमिटे-संस्थायाः मुख्य-अभियन्ता अपि सभायाम् उपस्थिताः भविष्यन्ति।

सभायां केन्द्रप्रायोजित-विशेष-अवसंरचना-योजनायाः २०२२–२६ अवधिं एकवर्षपर्यन्तं विस्तारितुं प्रस्तुतस्य प्रस्तावस्य विषये चर्चा भविष्यति। सर्वे सम्बद्धाधिकारिणः निर्धारित-समये सभायां उपस्थातुं निर्देशिताः सन्ति।

Hindusthan Samachar / Divya Ranjan