Enter your Email Address to subscribe to our newsletters

खूण्टिनगरम्, २७ जूनमासः (हि.स.)। खूण्टिनगरस्य नेताजी-चतुष्पथस्य समीपे शनिवासरे वर्दी मेरा जुनून इत्यस्य अभियानस्य तत्त्वावधानेन भारतीय-सेनायां चयनितयोः युवयोः लच्छू-मुण्डा (१८) तथा दुर्गा-भेङ्गरा (१९) इत्येतयोः सम्मानार्थं भव्यः अभिनन्दन-समारोहः आयोजितः। कार्यक्रमस्य उद्देश्यं चयनितयोः युवयोः सम्मानं कर्तुं तथा क्षेत्रस्य बालकेषु युवकेषु च राष्ट्रभक्तेः, अनुशासनस्य, भारतीय-सेनां प्रति आकर्षणस्य च संवर्धनम् आसीत्।
समारोहे बहुसंख्यकाः ग्रामीणाः, अभिभावकाः, छात्राः, छात्र्यः तथा युवानः उपस्थिताः आसन्। भारतीय-सेनायां चयनितौ उभौ युवानौ पुष्पमालाभिः सम्मानितौ। उपस्थितैः तयोः चयनस्य विषये हर्षः व्यक्तीकृतः, तौ च क्षेत्रस्य यूनां प्रेरणास्रोतौ इति निरूपितौ।
कार्यक्रमे मुख्यातिथिरूपेण नगर-पञ्चायत-अध्यक्षा रानी-टूटी, उपाध्यक्षः शशाङ्क-शेखरः तथा खूण्टि-थाना-प्रभारी अशोक-कुमार-सिंहः उपस्थिताः आसन्। अतिथिभिः स्वसम्बोधने उक्तं यत् भारतीय-सेनायाः पोषाकं केवलं सेवावृत्तिः न, अपितु राष्ट्रसेवायाः, साहसस्य, अनुशासनस्य, बलिदानस्य च प्रतीकम् अस्ति। तैः युवभ्यः शारीरिकतया मानसिकतया च स्वान् सुदृढान् विधाय कठिन-परिश्रमेण नियमितसज्जया च सेना-सहितेषु अन्येषु सुरक्षा-बलेषु प्रविश्य राष्ट्रसेवायाः आह्वानं कृतम्।
कार्यक्रमस्य आयोजकः प्रशिक्षकश्च आनन्द-रामः अवदत् यत् वर्दी मेरा जुनून, खूण्टि अभियानस्य उद्देश्यं अधिकाधिकान् युवानः सेनायां नियुक्त्यर्थं प्रेरयितुं, तेभ्यः समुचितं मार्गदर्शनं च प्रदातुम् अस्ति। तेन विश्वासः व्यक्तीकृतः यत् सम्यग्दिशा कठिन-परिश्रमश्च सन्ति चेत्, खूण्टि-जनपदस्य अधिकाधिकाः युवानः भारतीय-सेनायां स्वीयं विशिष्टं परिचयं निर्मातुं समर्थाः भविष्यन्ति।
कार्यक्रमस्य समापनं जय हिन्द्, जय भारत इत्युद्घोषेण अभवत्। सम्पूर्णे आयोजने देशभक्तेः वातावरणं दृष्टिगोचरम् आसीत् तथा उपस्थितेषु बालकेषु युवकेषु च सेनायाः पोषाकं धृत्वा राष्ट्रसेवां कर्तुम् उत्साहः स्पष्टतया परिलक्षितः।
Hindusthan Samachar / Divya Ranjan