प्रथमम् सर्वधर्म-अङ्गदान-जागृति-सम्मेलनम् आयोजितम्
जम्मूः, 27जूनमासः (हि.स.)। जम्मू-कश्मीर-प्रदेशे प्रथमवारं सर्व-धर्म-अङ्ग-दान-जागृति-सम्मेलनस्य आयोजनं कृतम्, यस्मिन् विभिन्नेषु मतानां, सामाजिक-सङ्घटनानां, ऐच्छिक-सङ्घटनानां, स्वास्थ्य-विशेषज्ञाणां, समुदायनेतृणां च प्रतिनिधयः एकस्मिन् मञ्चे समागत्
प्रथमम् सर्वधर्म-अङ्गदान-जागृति-सम्मेलनम् आयोजितम्


जम्मूः, 27जूनमासः (हि.स.)।

जम्मू-कश्मीर-प्रदेशे प्रथमवारं सर्व-धर्म-अङ्ग-दान-जागृति-सम्मेलनस्य आयोजनं कृतम्, यस्मिन् विभिन्नेषु मतानां, सामाजिक-सङ्घटनानां, ऐच्छिक-सङ्घटनानां, स्वास्थ्य-विशेषज्ञाणां, समुदायनेतृणां च प्रतिनिधयः एकस्मिन् मञ्चे समागत्य अङ्गदानस्य महत्त्वस्य विषये जागरणं प्रसारयितुं प्रतिज्ञां कृतवन्तः। सोट्टो जे. एण्ड्. के. तथा एस्. एस्. जैनसभा जम्मू इत्येतयोः संयुक्तस्य आश्रये श्री विमल् मुनि भवन्, बाहु प्लाजा इत्यत्र अयं कार्यक्रमः आयोजितः आसीत्। विधायकाः अरविन्द् गुप्ता, विक्रं रन्धावा, युद्धवीर् सेठी च अस्मिन् कार्यक्रमे भागम् अगृह्णन्, तथा च अङ्गदानं मानवतायाः महती सेवा इति उपक्रमस्य प्रशंसाम् अकुर्वन्।

अस्मिन् अवसरे डा. पूनम् महाजन् इत्येषा विभिन्नमतानां दृष्ट्या अङ्गदानम् इति विषये प्रस्तुतिं कुर्वन्ती सूचितवती यत् हिन्दु, मुस्लिम्, सिख्, क्रिश्चियन्, जैन, बौद्ध इत्यादयः सर्वे प्रमुखाः धर्माः मानवसेवायाः, अनुकम्पायाः, जीवनरक्षायाः च सन्देशस्य प्रचारं कुर्वन्ति तथा च अङ्गदानम् निस्वार्थसेवायाः उदात्तकर्म इति मन्यन्ते। विविध-मतानां प्रतिनिधयः अपि मानवसेवायाः रूपेण अङ्गदानस्य आह्वानम् अकुर्वन्, तथा च जनान् यथाशक्यम् अङ्गदानकर्तारः भवितुम् आवाहयन्। कार्यक्रमस्य अन्ते, सर्वे प्रतिभागिनः अङ्गदानसम्बद्धान् भ्रमं परिहर्तुं, समाजे जागरणं प्रसारयितुं च सामूहिकं प्रतिज्ञां कृतवन्तः।

--------

Hindusthan Samachar / Dheeraj Maithani