Enter your Email Address to subscribe to our newsletters

नवदेहली, २७ जूनमासः (हि.स.)। केन्द्रीय-स्वास्थ्य-परिवार-कल्याण-मन्त्रालयेन २९ जूनमासस्य दिनाङ्के विज्ञान-भवने केन्द्रीय-स्वास्थ्य-परिवार-कल्याण-परिषदः षोडशी सभा आयोजयिष्यते। अस्याः सभायाः अध्यक्षतां केन्द्रीय-स्वास्थ्य-परिवार-कल्याणमन्त्री जे.पी.नड्डा करिष्यति। अस्मिन् अवसरे केन्द्रीय-स्वास्थ्य-राज्यमन्त्री अनुप्रियापटेल: तथा प्रतापराव-जाधवः अपि उपस्थितौ भविष्यतः।
स्वास्थ्य-मन्त्रालयेन शनिवासरे सूचितं यत् अस्यां सभायां राज्यानां केन्द्रशासितप्रदेशानां च स्वास्थ्य-परिवार-कल्याणमन्त्रिणः, सांसदाः, केन्द्र-राज्यसर्वकारयोः वरिष्ठाधिकारिणः, गैर-सर्वकारी-सदस्याः तथा स्वास्थ्य-क्षेत्रस्य विशेषज्ञाः सहभागिनः भविष्यन्ति। अस्य सम्मेलनस्य उद्देश्यं स्वास्थ्य-क्षेत्रे केन्द्र-राज्यानां मध्ये समन्वयस्य सुदृढीकरणं तथा महत्त्वपूर्णेषु नीतिगतविषयेषु व्यापकचर्चा च अस्ति।
सम्मेलने राष्ट्रिय-स्वास्थ्य-अभियानस्य एसडीजी-लक्ष्येषु प्राधान्येषु च, खाद्य-औषध-सुधारे तथा सहायक-स्वास्थ्य-सेवासु सम्बद्धेषु विषयेषु मन्थनं भविष्यति। तत्सह विभिन्न-स्वास्थ्य-योजनानां प्रगतिसमीक्षा, राज्येषु प्रचलितानां श्रेष्ठकार्यप्रणालीनां आदान-प्रदानम्, नवीन-समस्याः परिचयः तथा देशव्यापि स्वास्थ्यसेवानां अधिकप्रभावीकरणाय सामूहिक-रणनीतेः निर्माणविषयेऽपि चर्चा भविष्यति।
उल्लेखनीयमस्ति यत् केन्द्रीय-स्वास्थ्य-परिवार-कल्याण-परिषदः संविधानस्य अनुच्छेद-२६३ इत्यस्य अन्तर्गतं गठिता अस्ति। एषा परिषद् स्वास्थ्य-परिवार-कल्याण-मन्त्रालयस्य सर्वोच्चा परामर्शदात्री संस्था अस्ति, या चिकित्सा-जनस्वास्थ्यसम्बद्धानां नीतिनां कार्यक्रमाणां च क्रियान्वयनस्य समीक्षां कृत्वा राज्यैः केन्द्रशासितप्रदेशैश्च सह समन्वयस्थापने महत्त्वपूर्णां भूमिकां निर्वहति।
अयं सम्मेलनः स्वास्थ्य-क्षेत्रे सहकारी-संघवादस्य सुदृढीकरणाय तथा केन्द्र-राज्ययोः मध्ये उत्तम-समन्वयेन जनस्वास्थ्य-कार्यक्रमाणां प्रभावी-क्रियान्वयनस्य दिशि महत्त्वपूर्णः मन्यते।
Hindusthan Samachar / Divya Ranjan