सेनाप्रमुखेन जनरल-उपेन्द्रद्विवेदिना लद्दाखे ‘फायर-एण्ड्-फ्यूरी-कोर्प्स्’ इत्यस्य परिचालन-सज्जतायाः समीक्षणं कृतम्
लद्दाखः, जूनमास: २७ (हि.स.)। सेनाप्रमुखः जनरल-उपेन्द्रद्विवेदी शनिवासरे लद्दाखस्थितस्य फायर-एण्ड्-फ्यूरी-कोर्प्स्-मुख्यालयस्य भ्रमणं कृत्वा परिचालन-सज्जतायाः, युद्धसामर्थ्यस्य तथा सुरक्षाव्यवस्थायाः समीक्षणम् अकरोत्। सः सैनिकान् उद्भवन्तीनां सुरक्ष
सेनाप्रमुखेन जनरल-उपेन्द्रद्विवेदिना लद्दाखे ‘फायर-एण्ड्-फ्यूरी-कोर्प्स्’ इत्यस्य परिचालन-सज्जतायाः समीक्षणं कृतम्


लद्दाखः, जूनमास: २७ (हि.स.)। सेनाप्रमुखः जनरल-उपेन्द्रद्विवेदी शनिवासरे लद्दाखस्थितस्य फायर-एण्ड्-फ्यूरी-कोर्प्स्-मुख्यालयस्य भ्रमणं कृत्वा परिचालन-सज्जतायाः, युद्धसामर्थ्यस्य तथा सुरक्षाव्यवस्थायाः समीक्षणम् अकरोत्। सः सैनिकान् उद्भवन्तीनां सुरक्षा-समस्याया: प्रभावीरीत्या समक्षं कर्तुं सदा सजगान्, सतर्कान्, अभियाननिष्ठान् च भवितुम् आहूतवान्।

सेनायाः अतिरिक्त-लोकसूचना-महानिदेशालयेन सामाजिक-माध्यमे ‘एक्स्’ इति प्रकाशितायां सूचनायाम् उक्तं यत् लेह-स्थिते फायर-एण्ड-फ्यूरी-कोर्प्स-मुख्यालये सेनाप्रमुखाय क्षेत्रस्य वर्तमान-सुरक्षा-स्थितेः, परिचालन-सज्जतायाः, युद्ध-तत्परतायाः, आधारभूत-संरचनानां विकासस्य तथा निगराणी-गतिशीलता-एकीकृत-परिचालन-क्षमतानां सुदृढीकरणार्थं प्रचलमानानां विविध-उपक्रमाणां विषये विस्तरेण अवगतिः प्रदत्ता।

समीक्षणावसरे जनरल-द्विवेदी दुर्गम-भौगोलिक-परिस्थितिषु नियुक्तानां सैनिकानां व्यावसायिक-दक्षतायाः, समर्पणस्य तथा कर्तव्यनिष्ठायाः प्रशंसाम् अकरोत्। तेन उक्तं यत् समस्यापूर्ण-परिस्थितिष्वपि सैनिकैः उच्चस्तरीया परिचालन-क्षमता दृढा प्रतिबद्धता च प्रदर्शिता।

एडीजीपीआई-अनुसारं सेनाप्रमुखः सर्वान् अधिकारिणः सैनिकांश्च अभियाने एकाग्रचित्तान् भवितुं, परिचालनकाले सतर्कतां धारयितुं तथा परिवर्तमानानां सुरक्षा-समस्यानां सामनार्थं सर्वदा सिद्धान् भवितुम् आहूतवान्।

Hindusthan Samachar / Divya Ranjan