Enter your Email Address to subscribe to our newsletters

सिलीगुडीनगरम्, २७ जूनमासः (हि.स.)। भारतीय-जनता-पक्षस्य विधायिका शिखा-चट्टर्जी शनिवासरे फुलबाड़ी-१-ग्राम-पञ्चायतस्य भोलामोडतः राजबंशी-मोडपर्यन्तं पक्व-मार्ग-निर्माण-कार्यस्य शिलान्यासम् अकरोत्। अनेन उपक्रमेण दीर्घकालात् दुर्दशाग्रस्त-मार्गस्य कारणेन क्लेशम् अनुभवन्तः स्थानीय-जनाः महतीं न्यूनतां प्राप्स्यन्ति।
स्थानीय-निवासिनः अवदन् यत् मार्गस्य जीर्णावस्थायाः कारणात् प्रतिदिनम् आवागमने महती कठिनता अनुभूयते स्म। बहुवारं मार्गस्य पुनर्निर्माणस्य आग्रहः कृतः, तथापि कार्यम् आरब्धं नासीत्।
भाजपा-विधायिका शिखा-चट्टर्जी अवदत् यत् प्रायः ९०० मीटर-दीर्घस्य अस्य मार्गस्य निर्माणे प्रायः १७ लक्ष-रूप्यकाणां व्ययः भविष्यति। मार्गे विद्यमानैः विशाल-गर्तैः सामान्य-जनाः बहु क्लेशम् अनुभवन्ति स्म, एतत् दृष्ट्वा अस्याः योजनायाः शुभारम्भः कृतः।
अस्मिन् अवसरे स्थानीय-जनप्रतिनिधयः बहुसंख्यकाः ग्रामीणाश्च उपस्थिताः आसन्। मार्ग-निर्माण-कार्यस्य प्रारम्भेन सम्पूर्णे क्षेत्रे हर्षस्य वातावरणम् अभवत्।
Hindusthan Samachar / Divya Ranjan