सिंहस्थः २०२८ - चत्वारिंशत्कोट्यधिकाः श्रद्धालवः आगमिष्यन्ति, प्रतिदिनं चत्वारि कोटि-श्रद्धालवः अमृतस्नानं कर्तुं समर्थाः भविष्यन्ति - मोहनयादवः
भोपालः, जूनमासः २७ (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अवदत् यत् सिंहस्थ-२०२८-महोत्सवस्य अवसरे चत्वारिंशत्कोट्यधिक-श्रद्धालूनाम् आगमनस्य सम्भावना वर्तते। शिप्रानद्याः नवनिर्मितेषु विद्यमानेषु च घट्टेषु चतुर्विंशतिघण्टानां मध्ये प्रायः
उज्जैन में सिंहस्थ-2016 के अनुभव, सिंहस्थ-2028 का संकल्प पर हुई कार्यशाला को संबोधित करते हुए मुख्यमंत्री


भोपालः, जूनमासः २७ (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अवदत् यत् सिंहस्थ-२०२८-महोत्सवस्य अवसरे चत्वारिंशत्कोट्यधिक-श्रद्धालूनाम् आगमनस्य सम्भावना वर्तते। शिप्रानद्याः नवनिर्मितेषु विद्यमानेषु च घट्टेषु चतुर्विंशतिघण्टानां मध्ये प्रायः चत्वारि कोटि-श्रद्धालवः अमृतस्नानं कर्तुं समर्थाः भविष्यन्ति। राज्यसर्वकारः सर्वप्रकाराणि व्यवस्थापनकार्याणि करोति, येन सर्वे श्रद्धालवः मातुः शिप्रायाः जलेनैव स्नानं कर्तुं शक्नुयुः।

मुख्यमन्त्री शनिवासरे उज्जयिन्यां ‘सिंहस्थ-२०१६-अनुभवाः, २०२८-संकल्पः’ इति विषयकायां वृहत्प्रशिक्षणकार्यशालायां सम्बोधनम् अकरोत्। तेन उक्तं यत् द्वादशवर्षेषु एकवारं भवन् सिंहस्थः भारतस्य एव न, अपितु विश्वस्यापि महान् धार्मिकमेला अस्ति। एषः भारतीयसंस्कृतेः, दर्शनस्य, परम्परायाः, दृढश्रद्धायाः तथा आध्यात्मिकजीवनस्य महासङ्गमः अस्ति। अस्मिन् धार्मिकमहोत्सवे मातुः शिप्रायाः जले स्नानेन पापानां शमनं भवति।

मुख्यमन्त्री अवदत् यत् सिंहस्थ-२०२८ नव्यं, दिव्यं, भव्यं च कर्तुं राज्यसर्वकारः तीव्रतया सज्जतां करोति। सर्वे यदि निष्ठया, परिश्रमेण, समर्पणेन च कार्यं कुर्वन्ति, तर्हि अयं सिंहस्थः नूतनम् आदर्शं स्थापयिष्यति।

तेन सिंहस्थ-महासमारोहस्य व्यवस्थापने संलग्नान् प्रशासन-आरक्षक-स्वास्थ्य-नगरनिगम-निर्माणसंस्थानां च अधिकारिणः सम्बोध्य उक्तं यत् सिंहस्थः केवलं मेलापक: नास्ति, अपितु कोटिशः श्रद्धालूनाम् आस्थायाः केन्द्रबिन्दुः अस्ति। एषः अस्माकं परम्परायाः, विरासतः च भव्यः प्रतीकः अस्ति। अस्य गौरवस्य संरक्षणं सर्वेषां दायित्वम् अस्ति। अधिकारिणः, कर्मचारीणः, स्वयंसेवकाः, जनप्रतिनिधयः च एकदलवत् सेवाभावेन कार्यं कुर्वन्तु, यतः दलकार्यं सफलतायाः कुञ्जिका अस्ति।

तेन उक्तं यत् “स्वच्छः सिंहस्थः, स्वस्थः सिंहस्थः” इति अस्माकं संकल्पः अस्ति। सिंहस्थे आगच्छतां कोटिशः श्रद्धालूनां सुरक्षा अस्माकं सर्वोच्चप्राथमिकता अस्ति। जनसमूहव्यवस्थापनम्, आपत्कालीनसेवाः तथा त्वरितराहतव्यवस्थाः विशेषतया सुदृढीकर्तव्याः।

मुख्यमन्त्री अवदत् यत् उज्जयिन्यां तस्याः समीपवर्तिषु जनपदेषु च देशविदेशेभ्यः आगच्छतां श्रद्धालूनां सुविधार्थं पञ्चविंशतिसहस्रकोटिरूप्यकाणां मूल्येन विविधविकासकार्याणि प्रचलन्ति। एतेषां कार्याणां सम्पन्नतया उज्जयिनी सम्राट् विक्रमादित्यस्य कालीनं वैभवं पुनः प्राप्स्यति तथा धार्मिक-आध्यात्मिक-आर्थिकसमृद्धेः नूतनम् अध्यायं लिखिष्यति।

तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे देशे धार्मिकपर्यटनस्य अभिवृद्धिः जाता। परम्पराया: विकासस्य च समन्वयः प्रवर्तते। उज्जयिनी कालमहाकालयोः नगरी अस्ति। सिंहस्थ-२०२८ सफलतया सम्पादयितुं दूरदर्शिन्या योजनया आधारभूतसंरचनानां विकासकार्याणि प्रवर्तन्ते।

मुख्यमन्त्री स्मारितवान् यत् सः स्वयं १९८०-वर्षस्य सिंहस्थे स्काउट्-गाइड्-स्वयंसेवकरूपेण सेवाम् अकरोत्। १९९२-वर्षे सिंहस्थ-समितेः सभासु सहभागित्वस्य अवसरमपि प्राप्तवान्।अग्रिमस्य सिंहस्थस्य कृते विविधसमितीनां गठनं भविष्यति तथा अनुभवीजनानां परामर्शाः स्वीकरिष्यन्ते।

तेन उक्तं यत् २०२२-वर्षानन्तरम् उज्जयिन्यां अतिथिगृहाणां निर्माणम्, मार्गविस्तारणम्, आधारभूतसंरचनानां विकासः च तीव्रतया अभवत्। श्रद्धालूनां सुविधाजनकागमनगमनार्थं प्रायः सर्वे मार्गाः विस्तारिताः सन्ति। शिप्रानद्याः तटे घाटनिर्माणकार्यं प्रचलति। सेवरखेड़ी-सिलारखेड़ी-जलपरियोजना शिप्रायां जलोपलब्धिं सुनिश्चितां करिष्यति। पक्कघाटनिर्माणेन मृत्तिकाक्षयः निरुध्यते तथा नदीप्रवाहः अविच्छिन्नः समरूपश्च भविष्यति।

मुख्यमन्त्री अवदत् यत् उज्जयिन्याः समीपवर्तिनगरैः सह उत्तमा मार्गसंयोजकता विकसित्यते। रेलमार्गस्य विकासकार्याण्यपि तीव्रतया प्रचलन्ति। फतेहाबाद-रेलमार्गः प्रवृत्तः अस्ति तथा उज्जयिन्यां नूतनरेलस्थानकस्य निर्माणकार्यं प्रचलति। कार्यशालायाः माध्यमेन प्राप्तानां सर्वेषां परामर्शाणां समुचितप्रयोगेन सिंहस्थ-२०२८ सफलतया सम्पादयिष्यामः।

कार्यशालायां मुख्यमन्त्री अवदत् यत् देशविदेशेभ्यः आगच्छतां श्रद्धालूनां सुरक्षित-सुविधानुकूल-स्नानव्यवस्थार्थं ७७८ कोटिरूप्यकाणां व्ययेन शिप्रायाः उभयतटे २९ किलोमीटर-दीर्घाः नूतनघाटाः निर्मीयन्ते। अपि च १२० कोटिरूप्यकाणां व्ययेन विद्यमानानां ७.८ किलोमीटर-दीर्घाणां स्थायीघाटानाम् उन्नयनकार्यं प्रचलति। अन्येषां निर्माणकार्याणामपि विस्तृतविवरणं तेन प्रदत्तम्।

Hindusthan Samachar / Divya Ranjan