Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २७ जूनमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य शनिवासरे दशमे अन्ताराष्ट्रिय-एमएसएमई-दिवसे भोपालनगरस्य रवीन्द्र-भवने आयोजिते ‘सशक्त-उद्यमी-समृद्ध-मध्यप्रदेश-शिखर-सम्मेलने’ सहभागी भविष्यति। ‘समृद्धभारतस्य हृदयम्—विकासस्य हृदयम्’ इति सन्देशं वहति अस्मिन् समारोहे मुख्यमन्त्री एमएसएमई-एककानां कृते २२५ कोटि: १९ लक्षरूप्यकाणि तथा स्टार्ट-अप-उद्यमेभ्यः प्रायः ३९ लक्षरूप्यकाणि अन्तरयिष्यति।
अस्मिन् शिखर-सम्मेलने मुख्यमन्त्रिणः उपस्थितौ महत्त्वपूर्णानां सन्धि-ज्ञापनानां हस्ताक्षराणि, औद्योगिकक्षेत्राणां शुभारम्भः तथा भूमिपूजनं च भविष्यति। अस्मिन् अवसरे सूक्ष्म-लघु-मध्यमोद्यममन्त्री चेतन्यकुमार-काश्यपः तथा मुख्यसचिवः अनुराग-जैनः अपि विशेषरूपेण उपस्थितौ भविष्यतः।
उद्योगायुक्तः दिलीपकुमारः अवदत् यत्, शिखर-सम्मेलने खाद्यप्रसंस्करण-वस्त्र-परिधान- तथा अभियान्त्रिकी-क्षेत्रेषु कार्यरतानां एमएसएमई-उद्यमानां कृते क्रेता-विक्रेता-सम्मेलनम् आयोज्यते। मुख्यमन्त्री एमएसएमई-प्रदर्शनीम् तथा ईज-ऑफ-डूइङ्ग-क्लिनिक-इत्यस्य उद्घाटनं करिष्यति। प्रदर्शिन्यां प्रायः ६० प्रदर्शिनी-स्थानानि भविष्यन्ति, येषु एमएसएमई, स्टार्ट-अप, विभागीय-प्रदर्शनानि, ई-वाणिज्य-मञ्चाः, ओडीओपी, योजनालाभार्थिनः, महिला-स्वसहायतासमूहाः, सेन्ट्रल-इन्स्टिट्यूट्-ऑफ-पेट्रोकेमिकल्स-इञ्जिनीयरिङ्ग-एण्ड-टेक्नोलॉजी-भोपालः, एमएसएमई-टेक्नोलॉजी-सेन्टर-भोपालः, भारतीय-मानक-ब्यूरो, जीईएम्, राष्ट्रीय-तकनीकी-शिक्षक-प्रशिक्षण-अनुसन्धान-संस्थानम् तथा धनागाराणां प्रतिनिधयः, वालमार्ट्, फ्लिपकार्ट् इत्यादयः संस्थाः सहभागी भविष्यन्ति। अस्मिन् अवसरे प्रतिभागिभ्यः सम्बन्धितयोजनानां कार्यक्रमाणां च सूचना अपि प्रदास्यते।
तेन उक्तं यत्, शिखर-सम्मेलने एमएसएमई-मन्त्री चेतन्यकुमार-काश्यपः तथा मुख्यसचिवः अनुराग-जैनः अपि सम्बोधनं करिष्यतः। प्रमुखसचिवः राघवेन्द्रकुमारसिंहः स्वागतोद्बोधनं दास्यति। अस्मिन् अवसरे एमएसएमई, उद्यानिकी-खाद्यप्रसंस्करणम्, कृषि-कृषक-कल्याणम्, ग्रामीण-कुटीरोद्योगः, पर्यटनम्, विज्ञान-प्रौद्योगिकी, एसआरएलएम् तथा आईपीआईपी-विभागानां विगत-अर्धत्रिवर्षस्य उपलब्धीनां तथा अग्रिम-सार्धत्रिवर्षस्य कार्ययोजनायाः आधारेण निर्मितस्य लघु-चलचित्रस्य प्रदर्शनं भविष्यति।
उद्योगायुक्तस्य अनुसारं शिखर-सम्मेलने द्विसहस्राधिकाः प्रतिभागिनः सहभागिन: भविष्यन्ति, येषु एमएसएमई-उद्यमिनः, स्टार्ट-अप-प्रतिनिधयः, वित्तीयसंस्थानानि, ई-वाणिज्य-मञ्चाः तथा महिला-स्वसहायतासमूहाः अन्तर्भवन्ति। शिखर-सम्मेलने सम्बद्धविभागानां विगत-सार्धत्रिवर्षस्य उपलब्धयः तथा अग्रिम-सार्धत्रिवर्षस्य कार्ययोजना प्रदर्श्यते।
तेन उक्तं यत्, शिखर-सम्मेलने त्रीणि विषयाधारितानि सत्राणि आयोज्यन्ते। प्रथमसत्रं ‘नवीन-विपणा:, नवीना उड्डयनम्’ (एमएसएमई तथा स्वसहायतासमूहानां कृते नूतन-बाजार-अवसराः) इति विषयकम् भविष्यति, यस्मिन् एफआईईओ, सीएसआईआर-एएमपीआरआई, ओएनडीसी, ईसीजीसी तथा इण्डिया-पोस्ट् इत्येतेषां विशेषज्ञाः सहभागी भविष्यन्ति। द्वितीयसत्रं ‘पूञ्जी-प्राप्तिः’ (अग्रिम-वंशस्य एमएसएमई-उद्यमानां वित्तपोषणम्) इति विषयकम् भविष्यति, यस्मिन् एनपीसीएल, सेन्ट्रल्-बैङ्क-ऑफ-इण्डिया, आरएक्सआईएल-ट्रेण्ड्स-मञ्चः तथा नाबार्ड् इत्येतयोः प्रतिनिधयः भागं गृह्णन्ति। तृतीयसत्रं भारतीय-मानक-ब्यूरो (बीआईएस) इत्यस्य सहयोगेन उत्पाद-गुणवत्ताविषये भविष्यति।
उद्योगायुक्तः अवदत् यत्, संयुक्तराष्ट्र-महासभया २०१७ तमवर्षस्य एप्रिलमासे पारितेन सङ्कल्पेन प्रतिवर्षं २७ जून-दिनाङ्कः ‘सूक्ष्म-लघु-मध्यमोद्यम-दिवसः’ इति घोषितः। अयं दिवसः सतत-विकास-लक्ष्याणां प्राप्तौ एमएसएमई-उद्यमानां महत्त्वपूर्णभूमिकायाः विषये जन-जागरूकतां वर्धयितुं आचर्यते। एतद्वर्षं अन्ताराष्ट्रिय-एमएसएमई-दिवसस्य आयोजनस्य दशमं वर्षम् अस्ति।
Hindusthan Samachar / Divya Ranjan