Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २७ जूनमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य शनिवासरे द्विदिवसीयभ्रमणार्थं बैतूल-जनपदस्य कुकरू-नामकं पर्वतीय-पर्यटनस्थलं गमिष्यति। सायं ६:३० वादने मुख्यमन्त्री सनसेट-पॉइण्ट-इत्यस्य अवलोकनं करिष्यति। ततः परं कुकरू-ग्रामपञ्चायते आयोजिते रात्रि-चौपाले सहभागी भूत्वा ग्रामीणैः सह प्रत्यक्षसंवादं करिष्यति।
जनसम्पर्काधिकारी के.के.जोशी अवदत् यत्, अनन्तरं मुख्यमन्त्री डॉ.यादवः प्रस्ताविते सांस्कृतिककार्यक्रमे अपि सहभागी भविष्यति। अपराह्णे १२ वादने मुख्यमन्त्री कुकरू-विश्रामगृहात् हेलिपदं प्रति प्रस्थास्यति तथा १२:१० वादने भोपालनगरं प्रति प्रस्थितो भविष्यति।
सः अपि अवदत् यत्, २८ जूनमासस्य प्रातः ६:३० वादने मुख्यमन्त्री सनराइज-पॉइण्ट तथा बुच-पॉइण्ट इत्यत्र ध्यानं करिष्यति। तदनन्तरं स्वसहायतासमूहस्य महिलाभिः सञ्चालितानां गतिविधीनाम् अवलोकनं करिष्यति। प्रातः ७:३० वादने पादपारोपण-कार्यक्रमानन्तरं कॉफी-पादपारोपण-क्षेत्रस्य निरीक्षणं करिष्यति। ततः परं प्रातः १० वादने स्थानीयजन-प्रतिनिधिभिः सह संवादं करिष्यति तथा ११ वादने प्रधानमन्त्रिणः रेडियो-कार्यक्रमस्य ‘मन की बात’ इत्यस्य सामूहिकश्रवणे सहभागी भविष्यति।
Hindusthan Samachar / Divya Ranjan