Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २७ जूनमासः (हि.स.)। मध्यप्रदेशस्य रीवा-जनपदस्य प्रसिद्धः सुन्दरजा-आम्रः इदानीं वैश्विक-विपणेषु विशिष्टं स्थानं प्राप्तवान्। केन्द्रीय-वाणिज्य-उद्योग-मन्त्रालयस्य अधीनस्थेन कृषि-प्रसंस्कृत-खाद्य-उत्पाद-निर्यात-विकास-प्राधिकरणेन सहकारेण जीआई-चिह्निताः रीवा-सुन्दरजा-आम्रफलानि मध्यप्रदेशतः प्रथमवारं वाणिज्यिकरूपेण संयुक्त-अरब-अमीरातदेशं निर्यातितानि। एषा उपलब्धिः वैश्विक-बाजारेषु भारतस्य विशिष्ट-कृषि-उत्पादानां प्रचारे महत्त्वपूर्णा सिद्धा जाता। कृषक-कल्याण-वर्षस्य सन्दर्भेऽपि एषा महती सिद्धिरस्ति।
जनसम्पर्क-अधिकारी अवनीश-सोमकुंवरः शनिवासरे अवदत् यत् गत-अनेक-मासेभ्यः एपीडा मध्यप्रदेश-सर्वकारस्य उद्यानिकी-विभागेन, निर्यातकैः, कृषक-उत्पादक-सङ्गठनैः, पैकिङ्ग-गृह-सञ्चालकैः तथा अन्ताराष्ट्रिय-क्रेतृभिः सह समन्वयं कृत्वा अस्य उत्कृष्ट-आम्रप्रकारस्य निर्यातार्थं सम्पर्क-स्थापनस्य कार्यम् अकरोत्। एतेषां समन्वित-प्रयत्नानां फलस्वरूपं संयुक्त-अरब-अमीरातदेशे एकः क्रेता परिज्ञातः, येन प्रसिद्धस्य रीवा-सुन्दरजा-आम्रस्य अन्ताराष्ट्रिय-विपणनस्य मार्गः उद्घाटितः।
सः अवदत् यत् जीआई-चिह्नितानां रीवा-सुन्दरजा-आम्रफलानां प्रथम-वाणिज्यिक-निर्यात-खेपे एकं मीट्रिक-टन-परिमितानि आम्रफलानि आसन्। एषा खेप २६ जून २०२६ दिनाङ्के मेसर्स साल्ट रेंज फूड्स प्राइवेट लिमिटेड इत्यनेन संस्थानेन संयुक्त-अरब-अमीरातदेशं प्रेषिता। एषा ऐतिहासिकी खेप रीवा-सुन्दरजा-आम्रस्य अन्ताराष्ट्रिय-यात्रायाः प्रारम्भस्य प्रतीका वर्तते तथा नियमित-निर्यातस्य मार्गमपि प्रशस्तं करिष्यतीति अपेक्षा अस्ति।
निर्याते उच्च-गुणवत्तायुक्तानि जीआई-चिह्नितानि रीवा-सुन्दरजा-आम्रफलानि समाविष्टानि, यानि मध्यप्रदेशस्य रीवा-जनपदस्य गोविन्दगढ़-निवासिनः ओन्धा फार्मर प्रोड्यूसर कम्पनी लिमिटेड तथा प्रगतिशील-कृषकात् सोनू-गुप्तात् प्राप्तानि। गुणवत्तामानदण्डानुसारं तेषां फलानां सङ्ग्रहणं कृतम्। ततः उत्तरप्रदेशस्य भदोही-स्थिते त्रिसागर फार्मर प्रोड्यूसर कम्पनी इत्यस्य एपीडा-सुविधायुक्ते पैकिङ्ग-गृहे तेषां श्रेणीकरणं, चयनं तथा निर्यातयोग्य-सङ्कलनं सम्पन्नम्। निर्यात-सङ्कलनस्य तथा पादप-स्वच्छता-सम्बद्धानां सर्वासाम् अपेक्षितानां प्रक्रियाणां पूर्त्यनन्तरं खेपः वाराणसी-विमानस्थानकं नीतः, ततः वायुमार्गेण संयुक्त-अरब-अमीरातदेशं प्रेषितः।
अस्मात् वाणिज्यिक-निर्यातात् रीवा-प्रदेशस्य आम्र-उत्पादक-कृषकाणां महत्त्वपूर्णः आर्थिक-लाभः भविष्यतीति अपेक्षा अस्ति। स्थानीय-बाजारे सुन्दरजा-आम्रस्य मूल्यं प्रायः १००–११० रूप्यकाणि प्रति-किलोग्रामम् अस्ति, किन्तु निर्यातकेन एतानि १५० रूप्यकाणि प्रति-किलोग्राम-दरेण क्रीतानि। एवं प्रति-किलोग्रामं ४०–५० रूप्यकाणां प्रत्यक्ष-लाभः कृषकेभ्यः प्राप्तः, यः निर्यात-केन्द्रित-मूल्य-शृङ्खलायां कृषकाणां सहभागितायाः आर्थिक-महत्त्वं प्रदर्शयति। एषा योजना अधिकाधिकान् कृषकान् गुणवत्तायुक्त-उत्पादनं तथा कटनोत्तर-प्रक्रियाणां स्वीकरणाय प्रेरयिष्यति, अन्ताराष्ट्रिय-विपणेषु तेषां प्रवेशं च वर्धयिष्यति।
जनसम्पर्क-अधिकारी अवदत् यत् एषः सफलः निर्यातः क्षेत्र-विशिष्ट-कृषि-उत्पादानां वैश्विक-परिचयार्थं भौगोलिक-सूचक-पञ्जीकरणस्य महत्त्वम् अधिकं प्रकाशयति। असाधारण-माधुर्येण, समृद्ध-सुगन्धेन, निर्रेश-गूदेन तथा विशिष्ट-स्वादेन प्रसिद्धः रीवा-सुन्दरजा-आम्रं निर्यातस्य अपाराः सम्भावनाः धारयति। अस्य वाणिज्यिक-निर्यातेन अस्य स्वदेशीय-प्रजातेः वैश्विक-परिचयः वर्धिष्यते तथा मध्यप्रदेशः उत्कृष्ट-आम्र-निर्यातस्य उदयमान-केन्द्ररूपेण प्रतिष्ठां प्राप्स्यति।
संयुक्त-अरब-अमीरातदेशं जीआई-चिह्नितानां रीवा-सुन्दरजा-आम्रफलानां प्रथम-वाणिज्यिक-निर्यात-खेपस्य उपलक्ष्ये २६ जून २०२६ दिनाङ्के ध्वजारोहण-समारोहः आयोजितः। एषः कार्यक्रमः मध्यप्रदेशतः कृषि-निर्यातस्य प्रोत्साहने एपीडायाः निरन्तर-प्रयत्नानां महत्त्वपूर्णां सिद्धिं प्रदर्शितवान् तथा एपीडा, मध्यप्रदेश-सर्वकारस्य उद्यानिकी-विभागः, निर्यातकाः, कृषक-उत्पादक-सङ्गठनानि, पैकिङ्ग-गृह-सञ्चालकाः, कृषकाः च इत्येषां सफल-सहकार्यस्य द्योतकः अभवत्।
एपीडा निर्यात-अवसंरचनायाः सुदृढीकरणेन, अन्तरराष्ट्रीय-गुणवत्ता-मानदण्डानां पालनं सुनिश्चित्य, बाजार-सम्पर्कान् विकसित्य तथा वैश्विक-विपणेषु भारतस्य कृषि-उत्पादानां प्रचारेण जीआई-चिह्नितानां मूल्यवर्धित-कृषि-उत्पादानां निर्यातं सुगमं करोति। रीवा-सुन्दरजा-आम्रस्य सफल-वाणिज्यिक-निर्यातेन भारतस्य जीआई-उत्पादानां कृते नूतना: अवसरा: सृज्यन्ते, कृषि-निर्यात-तन्त्रं सुदृढं भविष्यति तथा रीवा-प्रदेशस्य आम्र-उत्पादकानां स्थायी-आयवृद्धौ महत्त्वपूर्णं योगदानं भविष्यति।
सुन्दरजस्य वैशिष्ट्यम्
द्विवर्षपूर्वं रीवा-जनपदस्य गोविन्दगढ़-प्रदेशे उत्पाद्यमानः सुन्दरजा-आम्रः भौगोलिक-सूचक-चिह्नं (जीआई) प्राप्तवान्। १९६८ तमे वर्षे अस्य सम्मानार्थं डाक-टिकटमपि प्रकाशितम्। अयं रूपेण मनोहरः, स्वादेन उत्कृष्टः, सुगन्धेन च विशिष्टः अस्ति। प्रथम-वर्षायाः अनन्तरम् अयं पक्वः भवति। गोविन्दगढ़-प्रदेशस्य मृदा, तापमानं च अस्य वृक्षस्य संवर्धनाय सर्वथा अनुकूलम्; अतः अयं मुख्यतया तत्रैव उत्पाद्यते। अस्य पत्राणि, त्वक्, बीजानि च सर्वाणि उपयोगिनि सन्ति। अयम् उत्तमः प्रतिऑक्सीकारकः अस्ति तथा अस्मिन् विटामिन्-ए, विटामिन्-सी, लौहतत्त्वं च प्रचुरमस्ति। अल्प-शर्करायुक्तत्वात् मधुमेह-रोगिणामपि प्रियः भवति। सुन्दरजा-आम्रम् अद्य रीवा-जनपदस्य सम्पूर्ण-मध्यप्रदेशस्य च परिचय-चिह्नरूपेण प्रतिष्ठितः अस्ति।
उल्लेखनीयम् अस्ति यत् रीवा-स्थिते कथुलिया-फल-अनुसन्धान-केन्द्रे आम्र-विषये अद्यापि अनुसन्धानं प्रचलति। तत्र २३४५ विभिन्न-प्रजातीनां आम्रवृक्षाः रोपिताः सन्ति, येषु प्रमुखाः बॉम्बे-ग्रीन्, इन्दिरा, दशहरी, लंगड़ा, गधुवा, आम्रपाली, मल्लिका इत्यादयः सन्ति। बाणसागर-बन्धस्य नहर-व्यवस्था रीवा-प्रदेशे समीपवर्तीषु जनपदेषु च उद्यानिकी-फसलानां कृते जीवनरेखेव सिद्धा जाता, येन खाद्य-प्रसंस्करण-लघु-उद्योगानां विकासाय बहवः अवसराः निर्मिताः। गोविन्दगढ़-प्रदेशे एव आम्रस्य उत्कृष्टाः उद्यानाः सन्ति, यत्र प्रायः २३७ प्रकारकाः आम्राः उत्पाद्यन्ते। सर्वेषां स्वादः उत्कृष्टः अस्ति। अधुना रीवा-प्रदेशतः फ्रान्स, अमेरिका, ब्रिटेन तथा संयुक्त-अरब-अमीरातदेशं प्रति आम्रफलानां निर्यातः क्रियते।
Hindusthan Samachar / Divya Ranjan