Enter your Email Address to subscribe to our newsletters

नवदेहली, २७ जूनमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः २८ जूनतः ३० जूनपर्यन्तं तेलङ्गानाराज्यस्य प्रवासे भविष्यति। अस्मिन् विस्तृते प्रवासे सः प्रदेशे पक्षस्य सङ्घटनात्मक-संरचनायै नूतनां ऊर्जां प्रदातुं, जनसंपर्कं मूलस्तरे अधिकं सुदृढं कर्तुं तथा भावि-रणनीतीनां परिष्कारार्थम् अनेकासां उच्चस्तरीय-सभानाम् अध्यक्षतां करिष्यति। एतदतिरिक्तं सः नवनिर्मितानां जनपद-कार्यालयानां लोकार्पणं करिष्यति, युवभिः तथा मतदानकेन्द्राध्यक्षैः सह संवादं करिष्यति, तेलङ्गाना-प्रदेश-भाजपायाः राज्य-कार्यकारिणी-सभायाः विधिवद् उद्घाटनं कृत्वा कार्यकर्तॄन् मार्गदर्शयिष्यति।
भाजपया प्रदत्तसूचनानुसारं रविवासरे मध्याह्ने नितिननवीनः हैदराबाद-स्थितं राजीवगान्धी-अन्ताराष्ट्रिय-विमानस्थानकं प्राप्स्यति, यत्र पक्षस्य कार्यकर्तारः तस्य भव्यं स्वागतं करिष्यन्ति। सायं चतुर्वादने सः रङ्गारेड्डी-ग्रामीण-जनपदस्य भाजपाकार्यालयस्य उद्घाटनं करिष्यति तथा अन्येषां नवनिर्मितानां नव-जनपद-कार्यालयानां आभासीय-माध्यमेन लोकार्पणमपि करिष्यति। ततः परं सः नामपल्ली-स्थिते भाजपायाः प्रदेश-कार्यालये ग्रेटर-हैदराबाद-नगरनिगमस्य, साइबराबाद-नगरनिगमस्य, मलकाजगिरि-नगर-निगमस्य च मतदानकेन्द्राध्यक्षैः सह महत्त्वपूर्णं संवादं करिष्यति। अनन्तरं सः प्रदेशस्य सांसदैः, विधायकैः विधानपरिषदः सदस्यैश्च सह सभां करिष्यति।
प्रवासस्य द्वितीये दिने, सोमवासरे, राष्ट्रियाध्यक्षः प्रातः सार्धदशवादने घाटकेसर-स्थिते विज्ञानभारती-प्रौद्योगिकी-संस्थाने आयोजिते ‘विकसितभारत-छात्र-सम्मेलने’ सहभागी भविष्यति। तत्र सः युवभिः सह प्रत्यक्षं संवादं कृत्वा तान् राष्ट्रनिर्माणाय प्रेरयिष्यति। ततः परं मध्याह्ने द्वादशवादने सः भोंगीरं गमिष्यति। अनन्तरं हनमकोंडा-स्थिते आर्ट्स-कॉलेज-क्रीडाङ्गणे संयुक्त-वारङ्गल-जनपदस्य मतदानकेन्द्राध्यक्ष-स्तरात् उपरिस्थैः सर्वैः जनपद-पदाधिकारिभिः सह सघनं सङ्गठनात्मक-विमर्शं करिष्यति। एतेषां कार्यक्रमाणां समाप्तेः अनन्तरं सायं पञ्चवादने सः ऐतिहासिके भद्रकालीमातृमन्दिरे दर्शनं पूजार्चनां च करिष्यति। ततः पुनः हैदराबादं प्रत्यागत्य भाजपायाः प्रदेश-पदाधिकारिणां विस्तृत-सभायाः अध्यक्षतां करिष्यति तथा सङ्गठनस्य भावि-रूपरेखायाः अग्रिम-कार्ययोजनायाश्च विषये गम्भीरं मन्त्रणां करिष्यति।
प्रवासस्य तृतीये अन्तिमे च दिने, ३० जूनमासे, प्रातः सार्धैकादशवादने नितिननवीनः घाटकेसर-स्थिते रॉक-एन्क्लेव-कन्वेन्शन-केन्द्रे तेलङ्गाना-प्रदेश-भाजपा-इकायाः महत्त्वपूर्णायाः राज्य-कार्यकारिणी-सभायाः विधिवद् उद्घाटनं करिष्यति। ततः स्वस्य विस्तृतोद्बोधनेन प्रदेश-नेतॄन् कार्यकर्तॄंश्च दिशानिर्देशं दास्यति। एतेषां समस्तानां महत्त्वपूर्णानां सङ्घटनात्मक-कार्यक्रमाणां सफल-समापनानन्तरं राष्ट्रियाध्यक्षः नवदेहलीं प्रति प्रस्थितो भविष्यति।
Hindusthan Samachar / Divya Ranjan