प्रधानमन्त्रिणः मोदी-महोदयस्य सेशेल्स-देशस्य त्रिदिवसीया राजकीययात्रा, राष्ट्रियदिवसस्य स्वर्णजयन्ती-समारोहे सहभागिता
नवदेहली, २७ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य सेशेल्स-देशस्य त्रिदिवसीया राजकीययात्रा शनिवासरात् प्रारभ्यते। एषा यात्रा भारत-सेशेल्स-देशयोः दृढमैत्री, सामुद्रिक-सहयोगस्य तथा परस्पर-सहभागिताया: अधिकसुदृढीकरणाय महत्त्वपूर्णं पदक्षे
प्रधानमंत्री नरेन्द्र मोदी की सेशेल्स की तीन दिवसीय यात्रा (फाइल फोटो)


नवदेहली, २७ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य सेशेल्स-देशस्य त्रिदिवसीया राजकीययात्रा शनिवासरात् प्रारभ्यते। एषा यात्रा भारत-सेशेल्स-देशयोः दृढमैत्री, सामुद्रिक-सहयोगस्य तथा परस्पर-सहभागिताया: अधिकसुदृढीकरणाय महत्त्वपूर्णं पदक्षेपं मन्यते।

विदेशमन्त्रालयस्य अनुसारं प्रधानमन्त्री-मोदी-महोदयस्य सेशेल्स-यात्रा राष्ट्रपतिः डॉ. पैट्रिक-हर्मिनी-महोदयस्य निमन्त्रणेन भवति। सेशेल्स-देशः स्वस्य राष्ट्रियदिवसस्य स्वर्णजयन्ती-समारोहं (पञ्चाशत्तमवार्षिकोत्सवम्) आचरति, यस्मिन् प्रधानमन्त्री मुख्यातिथिरूपेण सहभागी भविष्यति। प्रधानमन्त्री मोदी-महोदयः अस्मात् पूर्वं २०१५ तमे वर्षे अपि सेशेल्स-देशं गतवान् आसीत्।

यात्रायाः अवधौ प्रधानमन्त्री मोदी-महोदयः सेशेल्स-देशस्य राष्ट्रपतिना हर्मिनी-महोदयेन सह द्विपक्षीयवार्तां करिष्यति। उभौ नेतारौ भारत-सेशेल्स-देशयोः मध्ये सहयोगस्य सर्वेषां क्षेत्राणां समीक्षां करिष्यतः, क्षेत्रीय-अन्ताराष्ट्रियविषयेषु च स्वविचारान् विनिमेष्यतः। अस्मिन् अवसरे प्रधानमन्त्री मोदी-महोदयः सेशेल्स-देशस्य राष्ट्रियविधानसभां सम्बोधयिष्यति तथा तत्र निवसद्भिः भारतीयसमुदायस्य सदस्यैः सह अपि मिलिष्यति।

Hindusthan Samachar / Divya Ranjan