Enter your Email Address to subscribe to our newsletters






विक्टोरिया (सेशेल्स), २७ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी त्रिदिवसीय-राजकीय-प्रवासाय शनिवासरे सेशेल्सदेशं प्राप्तवान्। सेशेल्सदेशस्य राष्ट्रियदिवसस्य स्वर्णजयन्ती-समारोहे मुख्यातिथित्वेन उपस्थितुं प्राप्तस्य प्रधानमन्त्रीणः मोदीनः राष्ट्रपतिना डा.पैट्रिकहर्मिनी विशेषतः विमानस्थानके स्वागतं कृतम्। प्रवासस्य प्रथमे दिने मोदी राष्ट्रपतिना हर्मिनीसह राष्ट्रिय-वनस्पति-उद्यानस्य भ्रमणम् अकरोत् तथा संयुक्त-वृक्षारोपण-कार्यक्रमे सहभागित्वम् अकरोत्। तेन एल्डाब्रा-प्रदेशस्य विशालकाय-कच्छपा: अपि दृष्टाः तथा भारतीय-प्रवासी-समुदायस्य सदस्यैः सह मिलित:।
प्रधानमन्त्री मोदी सामाजिक-माध्यमे ‘एक्स’ इति मञ्चे प्रकाशिते सन्देशे उक्तवान् यत् सेशेल्सदेशः हिन्दमहासागर-प्रदेशे भारतस्य महत्त्वपूर्णः सामुद्रिक-सहभागी घनिष्ठमित्रं च अस्ति। सः उक्तवान् यत् उभयदेशयोः चिरस्थायि-सम्बन्धान् अधिकं सुदृढान् कर्तुं जनहिताय सहकारं च वर्धयितुम् अस्य प्रवासस्य विषये सः अत्यन्तम् उत्साहितः अस्ति।
अन्यस्मिन् सन्देशे प्रधानमन्त्री स्वस्य स्वागतसमये प्रस्तुतस्य कच्छप्रदेशस्य पारम्परिक-नृत्यस्य उल्लेखम् अकरोत्। तेन उक्तं यत् भारतीय-प्रवासी-समुदायः भारतस्य विविधाः सांस्कृतिक-परम्पराः यथा संरक्षितवान् जीविताश्च स्थापितवान्, तत् प्रशंसनीयम् अस्ति।
विमानस्थानकात् प्रधानमन्त्री-मोदी-राष्ट्रपतिना हर्मिनिना सह एकस्मिन्नेव वाहनेन राष्ट्रिय-वनस्पति-उद्यानम् अगच्छत्। अन्यस्मिन् सन्देशे प्रधानमन्त्री उक्तवान् यत् सः राष्ट्रपतिना हर्मिनिना सह राष्ट्रिय-वनस्पति-उद्यानं प्रति गच्छति।
राष्ट्रिय-वनस्पति-उद्याने उभौ नेतारौ संयुक्त-वृक्षारोपण-कार्यक्रमे सहभागित्वम् अकुरुताम्। अन्यस्मिन् सन्देशे प्रधानमन्त्री उक्तवान् यत् तेन राष्ट्रपतिना हर्मिनिना सह ‘कोको डी मेर’ इति वृक्षस्य रोपणं कृतम्। एषः सेशेल्सदेशस्य विशिष्टः परिचायकः अस्ति तथा देशस्य राजचिह्नेऽपि अङ्कितः अस्ति। तेन उक्तं यत् भारतं सेशेल्सदेशश्च जैवविविधता-संरक्षणे, पर्यावरणीय-उत्तरदायित्वस्य संवर्धने तथा भावि-वंशेभ्यः हरितां स्वस्थां च पृथिवीं प्रदातुं समानसङ्कल्पेन सम्बद्धौ स्तः।
उद्यान-भ्रमणस्य समये प्रधानमन्त्री राष्ट्रपतिना हर्मिनिना सह एल्डाब्रा-विशालकाय-कच्छपानां परिसरस्य अपि अवलोकनम् अकरोत्। अन्यस्मिन् सन्देशे प्रधानमन्त्री उक्तवान् यत् एल्डाब्रा-विशालकाय-कच्छपः सेशेल्सदेशस्य मूल-प्रजातिः अस्ति तथा सः विश्वस्य बृहत्तमासु दीर्घायु-प्रजातिषु च अन्यतमः अस्ति। एतेषां केचन कच्छपाः द्विशताधिक-वर्षाणां इतिहासस्य साक्षिणः अभवन्।
प्रधानमन्त्री अन्यस्मिन् सन्देशे उक्तवान् यत् एल्डाब्रा-विशालकाय-कच्छपानां भारत-सेशेल्स-मैत्र्या सह अपि विशेषः सम्बन्धः अस्ति। वर्षे २०१४ द्वौ एतादृशौ कच्छपौ कोलकातास्थिताय अलीपुर-प्राणिसंग्रहालयाय उपहाररूपेण प्रदत्तौ। ततः कतिपयवर्षेभ्यः अनन्तरं सेशेल्सदेशेन अन्ये केचन कच्छपाः हैदराबाद-प्राणिसंग्रहालयाय अपि उपहाररूपेण प्रदत्ताः।
आवासस्थलं प्राप्ते प्रधानमन्त्रीण: भारतीयमूलस्य जनाः प्रवासी-भारतीय-समुदायस्य सदस्याश्च तस्य हार्दिकं स्वागतं अकुर्वन्। प्रधानमन्त्री तैः सह मिलित्वा भारत-सेशेल्स-सम्बन्धेषु तेषां योगदानस्य प्रशंसाम् अकरोत्।
उल्लेखनीयं यत् प्रधानमन्त्री २७ जूनतः २९ जूनपर्यन्तं सेशेल्सदेशे भविष्यति। अस्मिन् अवधौ सः राष्ट्रियदिवसस्य स्वर्णजयन्ती-समारोहे मुख्यातिथित्वेन सहभागी भविष्यति। प्रवासस्य समये उभयदेशयोः सामुद्रिक-सुरक्षा, विकास-सहयोगः, क्षमता-निर्माणम्, पर्यावरण-संरक्षणम् तथा हिन्दमहासागर-प्रदेशे सहभागिता-सुदृढीकरणम् इत्यादिषु विषयेष्वपि चर्चा भविष्यतीति सम्भावना वर्तते।
Hindusthan Samachar / Divya Ranjan