श्रावण-कांवड-मेलापकस्य सज्जतायाः मण्डलायुक्तेन समीक्षणम् कृतम्
पौडीनगरम्, २७ जूनमासः (हि.स.)। श्रावणमासस्य कांवड-मेलापकस्य अवसरे श्रद्धालुभ्यः सुरक्षिताः, सुगमाः सुव्यवस्थिताश्च व्यवस्थाः प्रदातुं गढवाल-मण्डलस्य मण्डलायुक्तः आनन्दस्वरूपः नीलकण्ठ-महादेव-मन्दिरस्य पदयात्रा-मार्गस्य स्थलीय-निरीक्षणम् अकरोत्। सः व
व्यवस्थाओं का जायजा लेते आयुक्त गढ़ वाले मंडल।


पौडीनगरम्, २७ जूनमासः (हि.स.)। श्रावणमासस्य कांवड-मेलापकस्य अवसरे श्रद्धालुभ्यः सुरक्षिताः, सुगमाः सुव्यवस्थिताश्च व्यवस्थाः प्रदातुं गढवाल-मण्डलस्य मण्डलायुक्तः आनन्दस्वरूपः नीलकण्ठ-महादेव-मन्दिरस्य पदयात्रा-मार्गस्य स्थलीय-निरीक्षणम् अकरोत्। सः विभिन्न-विभागैः क्रियमाणानां कार्याणां प्रगतिं समीक्ष्य व्यवस्थाः अधिकप्रभावीं कर्तुं बलम् अददात्।

मण्डलायुक्तः पदयात्रा-मार्गस्य, मन्दिर-परिसरस्य तथा तदासन्नेषु विकसित्यमान-सुविधानाम् अवलोकनम् अकरोत्। सः अवदत् यत् कांवड-मेलापकस्य समये श्रद्धालूनां सुरक्षा, सुचार्वागमनम्, आवश्यक-सुविधानां निर्बाध-उपलब्धता च सुनिश्चितीकरणम् प्रशासनस्य सर्वोच्च-प्राथमिकता अस्ति। एतदर्थं सर्वे विभागाः परस्पर-समन्वयेन समयबद्धतया उत्तरदायित्वपूर्वकं च कार्यं कुर्वन्तु।

तेन यात्रा-मार्गे पेयजल-व्यवस्था, शौचालयाः, वाहन-स्थापन-स्थलानि, सौर-दीपाः, स्वास्थ्य-सेवाः, सुरक्षा-व्यवस्था, यातायात-नियन्त्रणम्, आपदा-प्रबन्धनम् तथा स्वच्छता-व्यवस्थायाः समीक्षा कृता। अधिकारिभ्यः स्पष्टनिर्देशाः प्रदत्ताः यत् जुलाईमासस्य १५ दिनाङ्कात् पूर्वं सर्वाणि निर्माण-कार्याणि मरम्मत-कार्याणि च सम्पन्नानि भवेयुः, येन मेलाकाले कापि बाधा न उत्पद्येत।

मण्डलायुक्तः जनपद-पञ्चायतं स्वच्छता-व्यवस्थायां गुणात्मक-सुधारं नियमित-स्वच्छतां च सुनिश्चितीकर्तुम् उक्तवान्। तेन वन-विभागाय पदयात्रा-मार्गे स्वीकृत-कार्येषु शीघ्रतया कार्यं कर्तुं निर्देशः प्रदत्तः। स्वास्थ्य-विभागाय पर्याप्त-चिकित्सक-दलस्य, रोगिवाहिकानाम्, औषधानां तथा आपत्कालीन-संसाधनानां उपलब्धतां सुनिश्चितीकर्तुम् अपि निर्देशः प्रदत्तः। सः अवदत् यत् श्रद्धालूनां सुरक्षा-सुविधयोः विषये कस्मिन्नपि स्तरे सन्धि: न भविष्यति।

निरीक्षणस्य अवसरे अपर-मण्डलायुक्तः उत्तमसिंह-चौहानः, उपजनपदाधिकारी चतरसिंह-चौहानः, जलसंस्थानस्य अधिशासी-अभियन्ता अभिषेकवर्मा, लक्ष्मणझूला-क्षेत्रस्य निरीक्षकः सूर्यभूषण-नेगी, लोकनिर्माण-विभागस्य अपर-सहायक-अभियन्ता साहबसिंह-सैनी, तहसीलदारः वैभव-जोशी, व्यापार-मण्डलस्य पदाधिकारिणः तथा विभिन्न-विभागानां अधिकारिणः कर्मचारीणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan