Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २७ जूनमासः (हि.स.)। पर्यावरण-कार्यकर्ता सोनम-वाङ्चुकः रविवासरात् दिल्लीस्थिते जन्तर-मन्तर-स्थले आमरणानशने उपवेक्ष्यति। सः कथित-नीट्-प्रश्नपत्र-प्रसारण-प्रकरणस्य विषये केन्द्रीय-शिक्षामन्त्रिण: धर्मेन्द्रप्रधानस्य त्यागपत्रं तथा उत्तरदायित्वस्य निर्धारणं च प्रार्थयति।
‘कॉकरोच-जनता-पार्टी’ इत्यस्य प्रमुखः अभिजीतदीपके सामाजिक-माध्यमे एक्स इत्यत्र एतां सूचनां प्रदत्तवान्। एतद् आमरणानशनं सीजेपी-सङ्घटनस्य जन्तर-मन्तर-स्थले प्रचलतः विरोध-प्रदर्शनस्य भागः अस्ति।
अस्मात् पूर्वं सोनम-वाङ्चुकेन सामाजिक-माध्यमे प्रकाशिते चलच्चित्र-सन्देशे उक्तं यत् सः २७ जूनपर्यन्तं सर्वकारस्य उत्तरस्य प्रतीक्षां करिष्यति। यदि सर्वकारस्य पक्षतः शिक्षा-व्यवस्थायाः सुधारस्य अथवा लद्दाखस्य पर्यावरण-संस्कृत्योः संरक्षणसम्बद्धेषु विषयेषु कापि सकारात्मक-प्रतिक्रियां न प्राप्स्यते, तर्हि सः २८ जूनमासतः जन्तर-मन्तर-स्थले आमरणानशने उपवेक्ष्यति।
सीजेपी-सङ्घटनेन देशभरस्य युवभ्यः नागरिकेभ्यश्च आह्वानं कृतं यत् ते २८ जून-दिने जन्तर-मन्तर-स्थलं प्राप्य सोनम-वाङ्चुकस्य अस्य अभियानस्य च समर्थनार्थम् एकतां प्रदर्शयन्तु।
Hindusthan Samachar / Divya Ranjan