Enter your Email Address to subscribe to our newsletters

चेन्नईनगरम्, २७ जूनमासः (हि.स.)। तमिलनाडु-राजनीतौ महत्त्वपूर्णः घटनाक्रमः समुपस्थितः। मरुमलार्ची-द्रविड़-मुनेत्र-कड़गम् इत्यस्य महासभया शनिवासरे द्रविड़-मुनेत्र-कड़गम् नेतृत्वयुक्तात् धर्मनिरपेक्ष-प्रगतिशील-गठबन्धनात् पृथक् भवितुं प्रस्तावः सर्वसम्मत्या पारितः। दलस्य महासचिवस्य वाइको इत्यस्य अध्यक्षतायां सम्पन्नायां महासभायां वर्तमान-गठबन्धनस्य स्थितिः तथा भावि-राजनीतिक-रणनीतिः इत्येतयोः विषये विस्तृत-चर्चा अभवत्।
अस्मात् पूर्वं शुक्रवासरे एमडीएमके-दलस्य उच्चस्तरीय-समितेः सभा सम्पन्ना आसीत्। ततः शनिवासरे आयोजितायां महासभायां द्रमुक-दलेन सह गठबन्धनं धारयितव्यम् अथवा ततः पृथक् भवितव्यम् इति विषये पदाधिकाऱिणां कार्यकर्तॄणां च अभिप्रायाः श्रुताः। चर्चानन्तरं दलेन द्रमुक-गठबन्धनात् पृथक् भवितुं औपचारिकः प्रस्तावः पारितः।
महासभया पारिते प्रस्तावे उक्तं यत् एमडीएमके-दलम् २०१७ तमवर्षात् द्रमुक-नेतृत्वयुक्तस्य धर्मनिरपेक्ष-प्रगतिशील-गठबन्धनस्य सदस्य: वर्तते। दलस्य मते साम्प्रदायिक-राजनीतेः विरोधार्थं द्रविड़-आन्दोलनस्य वैचारिक-प्रतिबद्धतायाः सुदृढीकरणार्थं च एषः निर्णयः कृतः आसीत्।
प्रस्तावे अपि उक्तं यत् २०२६ तमिलनाडु-विधानसभा-निर्वाचनकाले गठबन्धनस्य अन्तः केचन प्रयत्नाः अभवन्, येन एमडीएमके-दलस्य स्वतन्त्र-राजनीतिक-परिचयः तथा गत-द्वात्रिंशद्वर्षीयं संघर्षपूर्णं राजनीतिक-योगदानं दुर्बलं कर्तुं प्रयत्नः कृतः। तथापि दलं गठबन्धन-धर्मं पालनं कृत्वा निर्वाचनं स्पर्धितवान्।
एमडीएमके-दलेन एतदपि प्रतिपादितं यत् निर्वाचन-परिणामानन्तरं राज्यस्य राजनीत्यां केचन घटनाक्रमाः अभवन्, ये जनादेशस्य भावनानुसारं नासन्। प्रस्तावे आरोपः कृतः यत् कतिपयैः प्रभावशालिभिः शक्तिभिः धर्मनिरपेक्ष-प्रगतिशील-गठबन्धनस्य मूल-वैचारिक-भावना दुर्बला कृता, अतः गठबन्धने स्थितिः दलस्य कृते उचितं नाभवत्।
महासभया अपि स्पष्टीकृतं यत् अग्रिम-निर्वाचनेषु दलं केन सह गठबन्धनं करिष्यति इति विषये समये आगते पृथक् निर्णयः क्रियते। अधुना केवलं द्रमुक-नेतृत्वयुक्त-गठबन्धनात् पृथक् भवितुं निर्णयः प्रभावी भविष्यति।
सभाकाले कडैयनल्लूर-निर्वाचनक्षेत्रस्य विधायकः राजेन्द्रन् तथा सीरकाझी-निर्वाचनक्षेत्रस्य विधायकः सेन्थिल-सेल्वन् अनुपस्थितौ आस्ताम्। तयोः अनुपस्थित्या राजनैतिक-वृत्तेषु विविधाः चर्चाः आरब्धाः। माध्यमेषु एतादृश्यः अपि चिन्ता: प्रचलन्ति यत् उभौ विधायकौ स्वपदात् त्यागपत्रं दातुं न इच्छतः। किन्तु एतस्मिन् विषये ताभ्यां किमपि आधिकारिकं वक्तव्यं न प्रदत्तम्।
उल्लेखनीयं यत् अद्यतन-तमिलनाडु-विधानसभा-निर्वाचने एमडीएमके-दलेन द्रमुक-गठबन्धनस्य अन्तर्गतं ‘उदय-सूरियन’ निर्वाचन-चिह्ने चतुर्षु आसन्देषु निर्वाचनं स्पर्धितम्, तासु कडैयनल्लूर-सीरकाझी-निर्वाचनक्षेत्रयोः विजयः प्राप्तः। अधुना गठबन्धनात् पृथक् भवितुं निर्णयानन्तरं राज्यस्य राजनीतौ नूतन-राजनीतिक-समीकरणानां सम्भावना वर्धिता अस्ति।
Hindusthan Samachar / Divya Ranjan