Enter your Email Address to subscribe to our newsletters





गोरखपुरम्, २७ जूनमासः (हि.स.)। गोरक्षनाथ-मन्दिरे प्रवासस्य समये शनिवासरे प्रातःकाले जनतादर्शन-कार्यक्रमेण जनसेवां कृत्वा उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः मन्दिरस्य गोशालां गत्वा गोसेवायामपि निरतः अभवत्। सः स्नेहेन गोभ्यः गोवंशेभ्यश्च स्पर्शं कृत्वा तान् सस्नेहं लालयामास। स्वहस्तैः गुड-रोटिकाः भोजयित्वा गोशालायाः कार्यकर्तृभ्यः गोवंशस्य समुचित-परिचर्यायाः निर्देशान् अपि दत्तवान्।
गोरक्षनाथ-मन्दिरे प्रवासस्य अवसरे शनिवासरे प्रातः मुख्यमन्त्रिणः योगिनः दिनचर्या परम्परानुसारमेव आसीत्। सः गोरक्षनाथ-मन्दिरे शिवावतारस्य महायोगिनः गुरु-गोरक्षनाथस्य दर्शन-पूजनम् अकरोत्। ततः स्वगुरोः ब्रह्मलीनस्य महन्त-अवेद्यनाथस्य समाधिस्थलं गत्वा प्रणामं कृत्वा आशीर्वादम् अगृह्णात्। मुख्यमन्त्री योगी आदित्यनाथः यदा यदा गोरक्षनाथ-मन्दिरे भवति तदा तदा गोसेवा तस्य दैनिक-कार्यक्रमस्य अभिन्नम् अङ्गं भवति।
शनिवासरे प्रातः अपि मुख्यमन्त्री मन्दिर-परिसरस्य भ्रमणं कुर्वन् गोशालां प्राप्तवान् तथा तत्र किञ्चित्कालं व्यतीतवान्। गोशालायां सः गोवंशस्य ललाटे हस्तं स्थापयित्वा स्नेहेन तान् अलालयत् तथा स्वहस्तैः गुड-रोटिकाः अभोजयत्। गोसेवायाः समये गोशाला-परिसरे विचरद्भ्यः मयूरेभ्यः अपि मुख्यमन्त्री स्नेहं प्रदर्शितवान्।
Hindusthan Samachar / Divya Ranjan