Enter your Email Address to subscribe to our newsletters


नवदेहली, 27 जूनमासः (हि.स.)।उपराष्ट्रपतिः सी. पी. राधाकृष्णन् वर्यः अवदत् यत् सूक्ष्म-लघु-मध्यम-उद्यमाः (एम. एस. एम. ई.) 'विकसितभारतं 2047' प्रति भारतस्य यात्रायाः मेरुदण्डः अस्ति इति। सः अवदत् यत् देशस्य आर्थिकप्रगतौ तेषां भूमिका अतीव महत्त्वपूर्णः अस्ति इति।
उपराष्ट्रपतिः सी. पी. राधाकृष्णन् वर्यः शनिवासरे नवदेहली-नगरस्य डा. अम्बेडकर्-अन्ताराष्ट्रियकेन्द्रे आयोजिते 'एम. एस. एम. ई. दिवसः 2026-उद्यमीभारत्' इति कार्यक्रमे सम्बोधयन् एतत् उक्तवान्। अस्मिन् अवसरे स्वस्य भाषणे सः अधोरेखितवान् यत् गुणवत्तायाः विषये कदापि आपोषणं कर्तुं न शक्यते इति।
सी. पी. राधाकृष्णन् वर्यः अवदत् यत् सूक्ष्म-लघु-मध्यम-उद्यमस्य दीर्घकालीनस्य सफलतायाः कृते नवान्वेषणम्, तन्त्रज्ञानस्य स्वीकरणं, निरन्तरशिक्षणं च आवश्यकम् अस्ति इति। सः उद्यमशीलान् उद्बुद्धवान् यत् ए. ऐ. इतीदम् आपदायाः अपेक्षया विकासस्य अवसररूपेण स्वीकरोतु इति।
स्वस्य उद्यमशीलयात्रायाः वर्णनं कुर्वन् उपराष्ट्रपतिः स्मृता यत् स्नातकपदवीं प्राप्य सः कथं स्वपितुः आर्थिकसहायतया लघुवस्त्रव्यापारं प्रारभत इति। सः अवदत् यत् अध्यवसायेन, निरन्तरशिक्षणेन, परिश्रमेन च सः सार्वजनिकजीवने प्रवेशात् पूर्वं विशालं निट्वेर्-निर्यातव्यापारं निरमात् इति। युवा-उद्यमशीलान् प्रोत्साहयित्वा सः तान् आदिष्टप्रतिसन्धिद्वारा निरुत्साहितः न भवितुं, अपि तु स्वनिर्वाचिते क्षेत्रे निपुणतां प्राप्तुम् अवधानं दातुम् आदिष्टवान्।
अस्मिन् अवसरे उपराष्ट्रपतिः सम्पूर्णे भारते एम. एस. एम. ई.-संस्थानां सशक्तीकरणार्थं परिवर्तनशीलानां डिजिटल्-मञ्चानां, पटल-विशेषाणां, प्रकाशनानां च श्रृङ्खलाम् उद्घाटितवान्। एतेषु पी. एम. ई. जी. पी. 2.0 पटल, समाधान 2.0 पटल, पी. एम. एस. पटल, एम. एस. एम. ई. ग्लोबल् मार्ट् 2.0 पटल, एम्. एस्. एम्. ई. परीक्षण पोर्टल्, एम. एस. एम. ई. ऐडिया हैकाथन् 6.0 च सन्ति।
अस्मिन् कार्यक्रमे केन्द्रीय-एम. एस. एम. ई. मन्त्री जीतनराममाञ्झी, एम. एस. एम. ई. राज्यमन्त्री शोभा करन्दलजे, खादी-ग्रामोद्योग-आयोगस्य (के. वी. ऐ. सी.) अध्यक्षः मनोज कुटार, मन्त्रालयस्य तथा तस्य सङ्घटनानां वरिष्ठाः अधिकारिणः च उपस्थिताः आसन्। एतदतिरिच्य, एम. एस. एम. ई. पर्यावरणव्यवस्थायाः नीतिनिर्मातारः, उद्योगप्रमुखाः, महिला-उद्यमिनः, वित्तीयसंस्थाः, शिक्षाविदः, अन्ये च प्रमुखाः सहभागिनः अपि अस्मिन् कार्यक्रमे सम्मिलिताः।
--------
Hindusthan Samachar / अंशु गुप्ता