सूरतनगरे ‘महद्-वृक्षारोपण-अभियानस्य’ अन्तर्गतं २५ सहस्र-पादपानां रोपणम्, सी.आर. पाटिलेन शुभारम्भः कृतः
सूरतनगरम्, २८ जूनमासः (हि.स.)। गुजरात-राज्यस्य सूरतनगरे ‘महद्-वृक्षारोपण-अभियानस्य’ अन्तर्गतं रविवासरे केन्द्रीय-जलशक्ति-मन्त्री सी.आर. पाटिलः २५ सहस्र-पादप-रोपण-अभियानस्य शुभारम्भम् अकरोत्। अस्य महद्-वृक्षारोपण-अभियानस्य अन्तर्गतं सूरत-महानगरपालि
मेगा वृक्षारोपण अभियान में केंद्रीय जलशक्ति मंत्री सी आर पाटिल व महापौर माया मावाणी वृक्षारोपण करते हुए


सूरतनगरम्, २८ जूनमासः (हि.स.)। गुजरात-राज्यस्य सूरतनगरे ‘महद्-वृक्षारोपण-अभियानस्य’ अन्तर्गतं रविवासरे केन्द्रीय-जलशक्ति-मन्त्री सी.आर. पाटिलः २५ सहस्र-पादप-रोपण-अभियानस्य शुभारम्भम् अकरोत्।

अस्य महद्-वृक्षारोपण-अभियानस्य अन्तर्गतं सूरत-महानगरपालिकायाः दक्षिण-ए-क्षेत्रे टी.पी.एस.-सङ्ख्या ५४ (भेस्तान), एफ.पी.-सङ्ख्या ६७ इत्यत्र निर्माणाधीनस्य ‘डॉ.श्यामा-प्रसाद-मुखर्जी-ऑक्सीजन-पार्क’ इत्यस्मिन् केन्द्रीय-मन्त्री सी.आर.पाटिलः वृक्षारोपणं कृत्वा अभियानस्य स्मृति-शिलापट्टिकायाः अपि अनावरणम् अकरोत्।

प्रातःकाले अष्टवादने आयोजिते अस्मिन् कार्यक्रमे निम्बः, अश्वत्थः, बोरसली, शहतूतः, दृढबीजम्, आमलकी, सीताफलम्, शिग्रुः इत्यादीनां चत्वारिंशदधिक-स्थानीय-प्रजातीनां २५ सहस्र-पादपानां रोपणम् अभवत्। तदतिरिक्तं नागरिकेभ्यः विभिन्न-प्रजातीनां ५ सहस्र-पादपाः निःशुल्कं वितरिताः।

कार्यक्रमस्य अवधौ उपस्थितेभ्यः सर्वेभ्यः नागरिकेभ्यः वृक्षारोपणस्य पादप-संरक्षणस्य च शपथः कारितः। अस्मिन् अभियाने नेचर-क्लब-सूरत, ग्रीन-आर्मी-चैरिटेबल-ट्रस्ट, सूरत-वन-फाउण्डेशन इत्यादयः अनेकाः स्वैच्छिक-संस्थाः सक्रियतया सहभागिताम् अकुर्वन्। पर्यावरण-संरक्षणस्य विषये जनजागरूकतां वर्धयितुम् विभिन्न-विद्यालयानां छात्राः आरक्षक-कर्मिणश्च उत्साहेन वृक्षारोपणम् अकुर्वन्।

कार्यक्रमस्य अध्यक्षतां सूरतनगरस्य महापौरा मायाबेन-मावाणी अकरोत्। अस्मिन् अवसरे सूरतनगर-भाजपा-प्रमुखः परेश-पटेलः, विधायकाः सङ्गीता-बहन-पाटिलः, मनुभाई-पटेलः, प्रवीणभाई-घोघारी, स्थायी-समितेः अध्यक्षः राजनभाई-पटेलः, उपमहापौरः सुधाकर-चौधरी, सत्तापक्ष-नेत्री अल्पाबेन-मेहता, दण्डकः उर्मिलाबेन-त्रिपाठी, नगरसेवकाः तथा महानगरपालिकायाः अधिकारिणः कर्मचारीणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan