बस्तरे जनसेवायाः नूतनः अध्यायः - सोनू-सूदः तथा माता मातङ्गी-दिव्य-धाम संयुक्तरूपेण सेवाकार्याणि वर्धयिष्यतः
दुर्गम्/रायपुरम्, २८ जूनमासः (हि.स.)। प्रसिद्धः बॉलीवुड-अभिनेता समाजसेवी च सोनू-सूदः तथा माता मातङ्गी-दिव्य-धाम, जामग्रामस्य पूज्यः पीठाधीश्वरः डॉ.प्रेमासाई-महाराजः इत्येतयोः मध्ये शनिवासरस्य सायंकाले सौहार्दपूर्ण: साक्षात्कार: संवादश्च अभवत्। अस्म
बॉलीवुड अभिनेता सोनू सूद और पीठाधीश्वर डॉ. प्रेमासाई महाराज की मुलाकात


दुर्गम्/रायपुरम्, २८ जूनमासः (हि.स.)। प्रसिद्धः बॉलीवुड-अभिनेता समाजसेवी च सोनू-सूदः तथा माता मातङ्गी-दिव्य-धाम, जामग्रामस्य पूज्यः पीठाधीश्वरः डॉ.प्रेमासाई-महाराजः इत्येतयोः मध्ये शनिवासरस्य सायंकाले सौहार्दपूर्ण: साक्षात्कार: संवादश्च अभवत्। अस्मिन् अवसरे समाजसेवा, शिक्षा, स्वास्थ्यं, गोसंरक्षणं तथा विशेषतः बस्तर-क्षेत्रस्य आवश्यकताग्रस्तजनानां कल्याणसम्बद्धविषयेषु विस्तृता चर्चा अभवत्।

डॉ. प्रेमासाई-महाराजेन सोनू-सूदाय आशीर्वादः प्रदत्तः तथा छत्तीसगढस्य पुण्यभूमौ तस्य अभिनन्दनम् अपि कृतम्। तेन च सोनू-सूदः मातामातङ्गी-दिव्य-धाम्नि आयोज्यमाने माता कोत्रवै-प्रतिमा-स्थापना-प्राणप्रतिष्ठा-महोत्सवे सहभागित्वेन मातुः आशीर्वादं ग्रहीतुं सस्नेहम् आमन्त्रितः। सोनू-सूदेन एतदामन्त्रणं सहर्षम् अङ्गीकृतम्।

संवादस्य समये डॉ. प्रेमासाई-महाराजेन सोनू-सूदस्य नेतृत्वे सूद-चैरिटी-फाउण्डेशन इत्यनेन देशव्यापिरूपेण क्रियमाणानां मानवसेवा-कार्याणां प्रशंसा कृता। तेन माँ मातङ्गी-दिव्य-धामस्य जनकल्याणकारी-गतिविधीनां विषये सूचना प्रदत्ता। तेन उक्तं यत् धामस्य माध्यमेन बस्तर-सहितेषु विविधेषु क्षेत्रेषु आवश्यकताग्रस्तबालकेभ्यः शैक्षिकसहायता, अस्थमा-रोगस्य निःशुल्क-चिकित्सा, आध्यात्मिक-स्वास्थ्यसेवा, आर्थिक-सहयोगः, गोसंरक्षणम्, आईटीबीपी-सैनिकेभ्यः आध्यात्मिक-मार्गदर्शनं तथा अन्यानि जनसेवा-कार्याणि निरन्तरं क्रियन्ते।

डॉ. प्रेमासाई-महाराजेन एतदपि कथितं यत् आगामिकाले “माँ मातङ्गी-शिक्षा-रत्न” इति सम्मानस्य प्रारम्भः भविष्यति। तदतिरिक्तं धामम् आगच्छद्भ्यः बालकेभ्यः नैतिक-शिक्षा-संस्कारयोः एक-घण्टात्मकाः कक्षाः अपि प्रारभ्यन्ते, येन तेषु शिक्षा, संस्कारः, अनुशासनं तथा सेवाभावः विकसितः भवेत्।

बस्तर-क्षेत्रे जनसेवा-कार्याणां विस्तारविषये उभयपक्षयोः मध्ये सकारात्मकः संवादः अभवत्। माँ मातङ्गी-दिव्य-धामेन विश्वासः व्यक्तीकृतः यत् बस्तर-क्षेत्रे सूद-चैरिटी-फाउण्डेशन-इत्यस्य शिक्षा-स्वास्थ्य-युवा-आदिवासी-क्षेत्र- तथा आवश्यकताग्रस्त-परिवार-सम्बद्धेषु जनसेवा-कार्यक्रमेषु सर्वथा सहयोगः प्रदास्यते, येन सेवायाः लाभः अधिकाधिकजनान् प्रति प्राप्नुयात्।

सोनू-सूदेन अपि विश्वासः व्यक्तीकृतः यत् शिक्षा-, स्वास्थ्य-, युवा-, आदिवासी-अञ्चल- तथा आवश्यकताग्रस्त-परिवाराणाम् उत्थानार्थं सः स्वस्य परोपकारी-कार्यक्रमैः निरन्तरं योगदानं दास्यति। तेन उक्तं यत् सेवा एव समाजस्य एकीकरणस्य तथा आवश्यकताग्रस्त-जनानां जीवने सकारात्मक-परिवर्तनस्य सर्वाधिकं प्रभावी माध्यमम् अस्ति।

माँ मातङ्गी-दिव्य-धाम, जामग्रामम् तथा सूद-चैरिटी-फाउण्डेशन भविष्ये सेवा-सहयोग- मानवकल्याणस्य समानोद्देश्यम् आधारं कृत्वा बस्तर-सहितेषु विविधेषु क्षेत्रेषु जनहितकारी-अभियानानि सञ्चालयिष्यतः, येन आवश्यकताग्रस्त-नागरिकाणां जीवने सकारात्मकं परिवर्तनम् आनयितुं शक्येत।

हिन्दुस्थानसमाचारः

Hindusthan Samachar / Divya Ranjan