राज्ये अनधिकृतचिकित्सकाणां विरूद्धं 59 प्रकरणानि अंकितानि, 62 गृहीतानि- मुख्यमंत्री डॉ. सरमा
गुवाहाटी, 28 जूनमासः (हि.स.)।मुख्यमन्त्री डॉ हिमन्त बिस्व सरमा राज्ये कूटचिकित्सकानां विरुद्धं सर्वकारस्य कठोरकार्यवाह्याः विवरणं प्रददन् अवदत् यत् राज्यस्य विभिन्नभागेभ्यः समग्ररूपेण ६२ कूटचिकित्सकाः गृहीताः सन्ति। मुख्यमन्त्री डॉ हिमन्त बिस्व सर
असमः मुख्यमंत्री द्वारा सोशल मीडिया पर जारी पोस्ट की तस्वीर


गुवाहाटी, 28 जूनमासः (हि.स.)।मुख्यमन्त्री डॉ हिमन्त बिस्व सरमा राज्ये कूटचिकित्सकानां विरुद्धं सर्वकारस्य कठोरकार्यवाह्याः विवरणं प्रददन् अवदत् यत् राज्यस्य विभिन्नभागेभ्यः समग्ररूपेण ६२ कूटचिकित्सकाः गृहीताः सन्ति।

मुख्यमन्त्री डॉ हिमन्त बिस्व सरमा सामाजिकमाध्यमे फेसबुक इत्यस्य स्वकीयाधिकारिकपृष्ठे एकां पोस्टं प्रकाशितवान्। तेन उक्तं यत् कूटचिकित्सकानां विरुद्धम् असमसर्वकारस्य कार्यवाही निरन्तरं प्रवर्तते। जनानां जीवनेन क्रीडा कदापि कस्यापि प्रकारेण न सह्यते। तेन सूचितं यत् अधुना पर्यन्तं ५९ प्रकरणानि पञ्जीकृतानि सन्ति तथा ६२ कूटचिकित्सकाः गृहीताः सन्ति।

मुख्यमन्त्री अवदत् यत् दुष्टजनैः एतत् स्मर्तव्यम् यत् सामान्यजनानां प्राणरक्षणं सुनिश्चितं कर्तुं अस्माकं एषा कठोरा कार्यवाही सर्वेषु क्षेत्रेषु भविष्ये अपि निरन्तरं प्रवर्तिष्यते।

उल्लेखनीयम् अस्ति यत् अर्वाचीनकाले बराकघाटीप्रदेशात् तथा अधो असमस्य धुबडी जनपदात् कूटचिकित्सकानां गृहीतत्वेन सर्वकारस्य अस्य कदमस्य दृढा पुष्टिः जाता।

---------------

Hindusthan Samachar / Dheeraj Maithani