Enter your Email Address to subscribe to our newsletters

खूंटी , 28 जूनमासः (हि.स.)।
खूंटी जिलाफुटबॉलसंघस्य तत्त्वावधाने आगामिनौ जुलाईमासस्य १ तथा २ दिनाङ्कौ बिरसामुण्डा फुटबॉल स्टेडियमे द्विदिवसीयः जिलास्तरीयः फुटबॉल निर्णायक प्रशिक्षणपाठ्यक्रमः आयोजयिष्यते। संघस्य पदाधिकाऱिणः रविवासरे अवदन् यत् प्रशिक्षणं सफलतया सम्पूर्णं कृतवन्तः अभ्यर्थिनः जिलाफुटबॉललीग्, प्रखण्डस्तरीय फुटबॉलस्पर्धासु, सुब्रतो मुखर्जी कप्, लिटिल च्याम्प्स्, खेलो झारखण्ड तथा एस जी एफ आई इत्यादिषु विविधासु स्पर्धासु निर्णायकत्वेन कार्यं कर्तुं अवसरं प्राप्स्यन्ति।
संघस्य सचिवः चन्द्रदेव सिंह रविवासरे विज्ञप्तिं प्रसार्य अवदत् यत् एतासु स्पर्धासु निर्णायकानां कार्यप्रदर्शनस्य मूल्याङ्कनं भविष्यति। उत्कृष्टं कार्यप्रदर्शनं कृतवतां निर्णायकानां नामानि जिलाफुटबॉलसंघस्य पक्षतः राज्यस्तरीय निर्णायकपरीक्षायै अनुशंसितानि भविष्यन्ति। संघेन फुटबॉलक्रीडायां रुचिं वहन्तः सर्वे इच्छुकाः युवानः शीघ्रातिशीघ्रं पञ्जीकरणं कुर्वन्तु इति आह्वानं कृतम्।
---------------
Hindusthan Samachar / Dheeraj Maithani