मादक-द्रव्य-व्यसनं राष्ट्रस्य विकासाय गम्भीरः संकटः — उपराष्ट्रपतिः
ङ्गलूरुनगरम्, २८ जूनमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.राधाकृष्णनः अवदत् यत् मादक-द्रव्य-व्यसनं केवलं व्यक्तेः स्वास्थ्यस्य कृते एव न, अपितु शिक्षायाः, उत्पादकत्वस्य, सामाजिक-समरसतायाः तथा राष्ट्रस्य विकासस्य कृते अपि गम्भीरः संकटः अस्ति। उपराष्ट्र
ಕಾರ್ಯಕ್ರಮದಲ್ಲಿ ಮಾತನಾಡಿದ ಉಪ ರಾಷ್ಟ್ರಪತಿ


ङ्गलूरुनगरम्, २८ जूनमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.राधाकृष्णनः अवदत् यत् मादक-द्रव्य-व्यसनं केवलं व्यक्तेः स्वास्थ्यस्य कृते एव न, अपितु शिक्षायाः, उत्पादकत्वस्य, सामाजिक-समरसतायाः तथा राष्ट्रस्य विकासस्य कृते अपि गम्भीरः संकटः अस्ति।

उपराष्ट्रपतिः रविवासरे बेङ्गलूरुनगरे राजीव-गान्धी-स्वास्थ्य-विज्ञान-विश्वविद्यालयस्य एकत्रिंशत्तमे स्थापना-दिवसे आयोजितं ‘नशा-मुक्त-भारत’ इति सम्मेलनम् सम्बोधयन् एतत् उक्तवान्। तेन उक्तं यत् नशा-मुक्त-समाजस्य निर्माणार्थं सर्वकारः, शैक्षणिक-संस्थानानि, अभिभावकाः तथा नागरिकाः मिलित्वा कार्यं कुर्वन्तु।

उपराष्ट्रपतिः पुनः अवदत् यत् मादक-द्रव्याणां दुष्प्रभावान् प्रति समाजे व्यापक-जनजागरूकतायाः सृजनम् तथा यूनः स्वस्थ-जीवनशैलीम् अङ्गीकर्तुं प्रेरणं दातुं वर्तमानकाले अत्यावश्यकम् अस्ति।

अस्मिन् कार्यक्रमे कर्नाटकस्य राज्यपालः थावरचन्द-गहलोतः, कर्नाटकस्य उपमुख्यमन्त्री डी.के.शिवकुमारः, आन्ध्र-प्रदेशस्य राज्यपालः अवकाशप्राप्तः न्यायमूर्तिः एस.अब्दुल-नज़ीरः तथा अन्ये बहवः गणमान्य-जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan