Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 28 जूनमासः (हि.स.)।राष्ट्रियप्रतिरक्षणाभियानस्य अन्तर्गतं पल्सपोलियोअभियानस्य शुभारम्भः अद्य महात्मागान्धीशताब्दीजिलाचिकित्सालयात् कृतः। अस्मिन् अवसरे पोलियोकेन्द्रे जन्मतः आरभ्य पञ्चवर्षपर्यन्तं बालकेभ्यः पोलियोऔषधस्य मात्रा पायिता।
अस्मिन् अवसरे मिशननिदेशकः डॉ सन्दीपतिवारी निदेशिका डॉ शिखाजंगपांगी मुख्यचिकित्साधिकारी देहरादून डॉ मनोजकुमारशर्मा प्रमुखचिकित्साअधीक्षकः डॉ मनुजैन अपरमुख्यचिकित्साधिकारी एन एच एम डॉ निधिरावत वरिष्ठशल्यचिकित्सकः डॉ आर के टम्टा राज्यप्रतिरक्षणाधिकारी डॉ कुलदीपमर्तोलिया जिलाप्रतिरक्षणाधिकारी डॉ दिनेशचौहान विश्वस्वास्थ्यसङ्घटनात् डॉ विकासशर्मा इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani