मध्यप्रदेशे पल्स पोलियो -अभियानमद्यारभ्य, 1.07 कोटिसंख्यकबालेभ्यः पास्यन्ते जीवनस्य बिंदुद्वयम्
- आंगनवाड़ी केंद्रेषु,चिकित्सालयैः विक्रयकेंद्रेषु , , रेल्वेस्थानकेषु , बसस्थानकेषु चापि दलानि नियुक्तानि भोपालम्, 28 जूनमासः (हि.स.)। मध्यप्रदेशे राष्ट्रिय-पल्स-पोलियो-अभियानस्य अन्तर्गतं अद्य रविवासरे शून्यतः पञ्चवर्षपर्यन्तवयस्केभ्यः बालकेभ्
पल्स पोलियो अभियान


- आंगनवाड़ी केंद्रेषु,चिकित्सालयैः विक्रयकेंद्रेषु , , रेल्वेस्थानकेषु , बसस्थानकेषु चापि दलानि नियुक्तानि

भोपालम्, 28 जूनमासः (हि.स.)।

मध्यप्रदेशे राष्ट्रिय-पल्स-पोलियो-अभियानस्य अन्तर्गतं अद्य रविवासरे शून्यतः पञ्चवर्षपर्यन्तवयस्केभ्यः बालकेभ्यः पोलियो-प्रतिरोधक-औषधस्य पानं कारयिष्यते। अस्य त्रिदिवसीय-अभियानस्य अन्तर्गतं प्रदेशव्यापि प्रायः १.०७ कोटि बालकेभ्यः “जीवनस्य कृते द्वे बिन्दू” इति पोलियो-बिन्दू-औषधं पाययिष्यते।

भोपालजनपदस्य मुख्यचिकित्सा-स्वास्थ्याधिकारी डॉ. मनीषशर्मा अवदत् यत् भारतस्य समीपवर्तिषु देशेषु अद्यापि पोलियोरोगस्य प्रकरणानि दृश्यन्ते, अतः पञ्चवर्षपर्यन्तवयस्केभ्यः सर्वेभ्यः बालकेभ्यः एषा औषधिः अवश्यं पायनीया। तेन परिजनेभ्यः अनुरोधः कृतः यत् अभियानस्य प्रथमदिने स्वबालकान् पोलियो-कक्षेषु आनयित्वा औषधं पाययन्तु।

जनसम्पर्काधिकारी अङ्कुशमिश्रः अवदत् यत् राष्ट्रिय-पल्स-पोलियो-अभियानस्य अन्तर्गतं जूनमासस्य २८ तः ३० दिनाङ्कपर्यन्तं शून्यतः पञ्चवर्षपर्यन्तवयस्कानां प्रदेशस्य प्रायः १.०७ कोटि बालकानां पोलियो-प्रतिरोधक-टीकायाः अतिरिक्तमात्रा प्रदातुं लक्ष्यं निर्धारितम् अस्ति। अभियानस्य सफलसञ्चालनाय प्रायः ८३ सहस्राणि पोलियो-कक्षाणि, १.६६ लक्षं टीकाकरणकर्तारः तथा २६ सहस्राणि पर्यवेक्षकाः नियुक्ताः सन्ति।

सः अवदत् यत् आङ्गनवाडी-केन्द्रेषु तथा चिह्नितेषु शासकीय-निजी-चिकित्सालयेषु पोलियो-कक्षाः स्थापिताः सन्ति, यत्र प्रथमदिने बालकेभ्यः पोलियो-औषधं पाययिष्यते। तदतिरिक्तं विपणिकेन्द्रेषु, विशाल-वाणिज्यकेन्द्रेषु तथा बाजारेषु अपि औषधपानार्थं विशेषदलानि नियुक्तानि सन्ति। बहिर्गच्छद्भ्यः जनपदम् आगच्छद्भ्यश्च पञ्चवर्षपर्यन्तवयस्केभ्यः सर्वेभ्यः बालकेभ्यः औषधप्रदानार्थम् विमानस्थानकेषु, रेलस्थानकेषु, बसस्थानकेषु च सञ्चरण-कक्षाः स्थापिताः सन्ति। उच्चजोखिमक्षेत्रेषु यथा इष्टकाभट्टेषु, शिलाचूर्णनकेन्द्रेषु, निर्माणस्थलेषु तथा भ्रमणशीलजनसमूहेषु चलदलानि अपि नियुक्तानि सन्ति।

ततः अनन्तरं जूनमासस्य २९ तथा ३० दिनाङ्कयोः गृहे गृहे गत्वा ये बालकाः औषधपानात् वञ्चिताः भविष्यन्ति, तेभ्यः पोलियो-औषधं पाययिष्यते। रेलस्थानकेषु, बसस्थानकेषु, विमानस्थानकेषु तथा अन्येषु सार्वजनिकस्थलेषु ३८०० सञ्चरण-कक्षाः तथा प्रवासी-उच्चजोखिमक्षेत्राणां कृते १४०० विशेष-चलदलानि अपि कार्यं करिष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani