मध्यप्रदेशः भोपालेऽद्य राज्य स्तरीय आईसीजेएस कार्यशालायाः आयोजनम्
भोपालम्, 28 जूनमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपालनगरे कुशाभाऊ ठाकरे सभागारे अद्य रविवासरे राज्य अपराध अभिलेख ब्यूरो द्वारा आईसीजेएस अन्तरसञ्चालनीय आपराधिक न्याय प्रणाली इति विषये एकदिवसीया राज्यस्तरीया कार्यशाला आयोज्यते। पुलिसमुख्यालयेन
पुलिस मुख्यालय भोपाल (प्रतीकात्मक)


भोपालम्, 28 जूनमासः (हि.स.)।

मध्यप्रदेशस्य राजधानी भोपालनगरे कुशाभाऊ ठाकरे सभागारे अद्य रविवासरे राज्य अपराध अभिलेख ब्यूरो द्वारा आईसीजेएस अन्तरसञ्चालनीय आपराधिक न्याय प्रणाली इति विषये एकदिवसीया राज्यस्तरीया कार्यशाला आयोज्यते।

पुलिसमुख्यालयेन प्रदत्ता सूचनानुसारम् उक्ता कार्यशाला पुलिसमहानिदेशकस्य कैलाश मकवाणा महोदयस्य मार्गदर्शने राज्य अपराध अभिलेख ब्यूरोस्य अतिरिक्त पुलिसमहानिदेशकस्य जयदीप प्रसाद महोदयस्य नेतृत्वे च आयोज्यते। कार्यशालायां मध्यप्रदेश उच्चन्यायालयस्य न्यायाधीशः न्यायमूर्तिः संजीव एस कलगांवकर महोदयः गौरवपूर्णाम् उपस्थितिं करिष्यति।

अस्याः कार्यशालायाः मुख्योद्देश्यम्

अस्याः कार्यशालायाः प्रमुखोद्देश्यं अन्तरसञ्चालनीय आपराधिक न्याय प्रणाली अन्तर्गतं पुलिस अभियोजन न्यायालय कारागार न्यायवैज्ञानिक विभाग तथा स्वास्थ्यविभागयोः मध्ये डिजिटल समन्वयस्य दत्तांशपरस्परप्रयोज्यतायाश्च सुदृढीकरणम् अस्ति। तथा च आईसीजेएस प्रणालीस्य कार्यान्वयने समुपस्थितानां चुनौतीनां वर्तमानव्यवस्थायाः विद्यमानदोषाणां तेषां समाधानार्थं रूपरेखानिर्माणस्य च विषये विस्तृतः विचारविमर्शः भविष्यति।

कार्यशालायां वरिष्ठाधिकारिणां सहभागिता

अस्यां कार्यशालायाम् आईसीजेएस प्रणालीस्य सर्वेभ्यः स्तम्भेभ्यः सम्बद्धाः वरिष्ठपुलिसाधिकारिणः प्रत्येकजनपदात् माननीयाः न्यायाधीशाः अभियोजनविभागस्य कारागारविभागस्य न्यायवैज्ञानिकविभागस्य स्वास्थ्यविभागस्य च प्रतिनिधयः सहभागिनः भविष्यन्ति।

आईसीजेएस प्रणालीस्य विविधविषयेषु गम्भीरविमर्शार्थं स्थानीयवक्तृभ्यः अतिरिक्तं एनसीआरबी नवीदिल्ली संस्थायाः उपनिदेशकः प्रसून गुप्तः मुम्बईनगरस्य न्यायवैज्ञानिक साइबरविशेषज्ञः डॉ सैयद शरीक महदी रिजवी तथा एनआईसी भोपालस्य सुनील जैन इत्येते अपि वक्तारः आमन्त्रिताः सन्ति। एते विषयसम्बद्धानां तकनीकीसत्राणां सञ्चालनं करिष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani