जिल्लाधिकारी पायितवान् पोलियो इत्यस्य बिंदुद्वयं, सीवाने पञ्च दिवसीयस्य अभियानस्य आरम्भः
सीवानम्, 28 जूनमासः (हि.स.)। जिले रविवासरात् आरभ्यमाणस्य पञ्चदिवसीयस्य राष्ट्रिय पल्स पोलियो अभियानस्य शुभारम्भः पचरुखी प्रखण्डस्य पकडी बङ्गाली आङ्गनवाडी केन्द्रसंख्या २०२ इत्यत्र जिलाधिकारी विवेक रञ्जन मैत्रेय एकस्मै बालकाय पोलियो निरोधनौषधस्य
बच्चे को पोलियो की दवा पिलाकर उद्घाटन करते जिलाधिकारी


सीवानम्, 28 जूनमासः (हि.स.)।

जिले रविवासरात् आरभ्यमाणस्य पञ्चदिवसीयस्य राष्ट्रिय पल्स पोलियो अभियानस्य शुभारम्भः पचरुखी प्रखण्डस्य पकडी बङ्गाली आङ्गनवाडी केन्द्रसंख्या २०२ इत्यत्र जिलाधिकारी विवेक रञ्जन मैत्रेय एकस्मै बालकाय पोलियो निरोधनौषधस्य द्वे बिन्दू पाययित्वा अकरोत्।

अभियानस्य प्रारम्भः जिलाधिकारिणः निर्देशानुसारम् आशाकार्यकर्त्र्या सन्ध्या देव्या फीता छित्त्वा कृतः। अनन्तरं सिविल सर्जन डा श्रीनिवास प्रसाद, जिला प्रतिरक्षण पदाधिकारी डा अरविन्द कुमार, डी एम ओ डा ओ पी लाल, डी पी एम विशाल कुमार सिंह, डब्ल्यू एच ओ संस्थायाः आर आर टी डा अमजद अली तथा पचरुखी चिकित्साधिकारी अपि बालकेभ्यः पल्स पोलियो औषधस्य खुराकं पायितवन्तः।

जिलाधिकारी विवेक रञ्जन मैत्रेय अवदत् यत् पोलियो मुक्तस्य समाजस्य संरक्षणं सर्वेषां सामूहिकी उत्तरदायित्वम् अस्ति। जिल्लायाः पञ्चवर्षपर्यन्तं प्रत्येकस्मै बालकाय पोलियो निरोधनौषधस्य द्वे बिन्दू अवश्यं पायनीयौ। तेन सर्वेभ्यः अभिभावकेभ्यः अपीलं कृतं यत् स्वास्थ्यविभागस्य दलस्य सहयोगं कुर्वन्तु तथा कश्चिदपि बालकः अस्याः जीवनरक्षकखुराकात् वञ्चितः मा भवतु।

सिविल सर्जन डा श्रीनिवास प्रसाद अवदत् यत् जिल्लायां त्रिलक्ष द्व्यशीतिसहस्र एकशत त्रिसप्तति बालकेभ्यः पोलियो निरोधनौषधस्य खुराकं पाययितुं लक्ष्यं निर्धारितम् अस्ति। एतदर्थं पञ्चलक्ष सप्तत्रिंशत्सहस्र अष्टशत षडशीति गृहेषु स्वास्थ्यकर्मिणः गमिष्यन्ति। अभियानस्य सफलतायै १३०६ गृहगृहगमनदलानि, १६७ सञ्चरणदलानि, ३५ चलदलानि, ४७७ पर्यवेक्षकाः तथा २९९६ टीकाकर्मिणः नियुक्ताः सन्ति। तेन उक्तं यत् अभियानस्य अवधौ पञ्चवर्षपर्यन्तः कश्चिदपि बालकः पोलियो निरोधनौषधस्य खुराकात् वञ्चितः न भवेत्। एतदर्थं सर्वेभ्यः अभिभावकेभ्यः सहयोगस्य अपीलं कृतम्।

कार्यक्रमे स्वास्थ्यप्रबन्धकः अञ्जनी कुमारः, शाहिद अर्शलान, अशोक कुमार शर्मा, आलोक सुधाकर इत्यादयः स्वास्थ्यविभागस्य अनेकाः पदाधिकारिणः कर्मिणश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani