Enter your Email Address to subscribe to our newsletters

नवदेहली, २८ जूनमासः (हि.स.)। लोकसभाध्यक्षः ओम्-बिड़ला, प्रधानमन्त्री नरेन्द्रमोदी तथा अन्ये बहवः नेतारः अद्य भारतरत्न-पूर्वप्रधानमन्त्री पी. वी. नरसिंहरावस्य जयन्त्यां तस्मै श्रद्धाञ्जलिम् अर्पितवन्तः। ओम्-बिड़लेन एक्स इति सामाजिक-माध्यमे लिखितं यत्, पूर्वप्रधानमन्त्रिणे भारतरत्नाय दिवङ्गताय पी.वी.नरसिंहरावाय तस्य जयन्त्यां सविनयं प्रणामः। देशस्य प्रगत्यर्थं नीतिनिर्मातारं रूपेण सः सदा स्मरणीयः भविष्यति।
प्रधानमन्त्री नरेन्द्रमोदी अपि पूर्वप्रधानमन्त्रिणं नरसिंहरावं प्रति श्रद्धाञ्जलिम् अर्पयन् अवदत् यत् देशस्य इतिहासस्य महत्त्वपूर्णे काले भारतस्य प्रगतौ तस्य महत्त्वपूर्णं योगदानम् आसीत्। सः कुशलः प्रशासकः आसीत् तथा च विद्वानपि। भारतीयस्य विविधसंस्कृतेः विषये तस्य गम्भीरं ज्ञानं सम्यक् अवगमनं च आसीत्।
रक्षामन्त्री राजनाथसिंहः अवदत् यत् दूरदर्शी-नेतृत्वेन राजनेता च सन् पी. वी. नरसिंहरावः भारतस्य आर्थिकविकास-यात्रायाम् अत्यन्तं महत्त्वपूर्णां भूमिकाम् अनिर्वहत्। राष्ट्राय तस्य योगदानं जीवनं च सदा स्मरणीयं भविष्यति।
काङ्ग्रेस-पक्षस्य राष्ट्रीयाध्यक्षः मल्लिकार्जुन-खड्गे अवदत् यत् पूर्वप्रधानमन्त्रिणः पी. वी. नरसिंहरावस्य सर्वकारेण प्रारब्धेन क्रान्तिकारी-आर्थिक-उदारीकरणेन विकासस्य गतिः वर्धिता, मध्यमवर्गस्य कृते अवसराः अपि वर्धिताः तथा देशः दीर्घकालिक-विकासस्य मार्गे अग्रे नीतः। तस्य कार्यकाले भारतस्य परमाणु-कार्यक्रमे उल्लेखनीया प्रगतिः अभवत् तथा च ऐतिहासिका 'लुक् ईस्ट्' नीति सहिताः दूरदर्शिन्यः कूटनीतिक-उपक्रमाः अपि प्रवर्तिताः। भारतस्य प्रगत्यै राष्ट्रनिर्माणाय च तस्य योगदानं सदा स्मरणीयं भविष्यति।
केन्द्रीय-कोयल-खननमन्त्री जी. किशन-रेड्डी अवदत् यत् तेलङ्गानाराज्यस्य गौरवः भारतरत्न-पूर्वप्रधानमन्त्री पी.वी.नरसिंहरावः तस्य जयन्त्यां स्मर्यते। दूरदर्शी-नेता, विद्वान्, कुशलः प्रशासकश्च सन् तेन देशस्य प्रगतौ तथा हैदराबाद-मुक्ति-सङ्ग्रामे उल्लेखनीयं योगदानं प्रदत्तम्।
हिन्दुस्थानसमाचारः
Hindusthan Samachar / Divya Ranjan