मनसः वार्ता - प्रधानमन्त्री आत्मनिर्भर-भारतस्य उपलब्धीः अगणयत्, जनसहभागितां देशस्य महत्तमां शक्तिं च अवदत्
नवदेहली, २८ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे मासिक-आकाशवाणी-कार्यक्रमे ‘मनसः वाणी’ इत्यस्मिन् अवदत् यत् जूनमासः भारतस्य कृते रक्षा-क्षेत्रे आत्मनिर्भरतायाः, विमानन-क्षेत्रस्य नवीन-उपलब्धीनां, योगस्य वैश्विक-स्वीकृतेः, जनभागीदार्
मन की बात कार्यक्रम में प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नवदेहली, २८ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे मासिक-आकाशवाणी-कार्यक्रमे ‘मनसः वाणी’ इत्यस्मिन् अवदत् यत् जूनमासः भारतस्य कृते रक्षा-क्षेत्रे आत्मनिर्भरतायाः, विमानन-क्षेत्रस्य नवीन-उपलब्धीनां, योगस्य वैश्विक-स्वीकृतेः, जनभागीदार्याः, सामाजिक-सुरक्षायाः, पर्यावरण-संरक्षणस्य तथा सांस्कृतिक-धरोहर-संरक्षणस्य च अनेकानां प्रेरणादायक-प्रयत्नानां साक्षी अभवत्। तेन उक्तं यत् देशस्य विभिन्न-भागेषु दृश्यन्ते सकारात्मक-परिवर्तनानि विकसित-आत्मनिर्भर-भारतस्य सङ्कल्पं नूतनां शक्तिं प्रयच्छन्ति।

प्रधानमन्त्री ‘मनसः वाणी’ इत्यस्य १३५तम-प्रसारणे देशवासिनः सम्बोधयन् अवदत् यत् २०२६-वर्षस्य अर्धः कालः सम्पूर्णः भवितुम् उपगतः, अतीतेषु षट्सु मासेषु च देशेन विविधेषु क्षेत्रेषु उल्लेखनीयाः उपलब्धयः प्राप्ताः। जूनमासः विशेषतः तादृशानां सफलतानां जनान्दोलनानां च साक्षी अभवत्, यैः भारतस्य सामरिक-क्षमता, प्रौद्योगिकी-दक्षता, सामाजिक-चेतना तथा वैश्विक-प्रतिष्ठा अधिकं सुदृढा जाता।

प्रधानमन्त्री अवदत् यत् पश्चिम-एशियायां युद्धसदृश-परिस्थितिषु अपि देशवासिभिः प्रदर्शिता उत्तरदायित्व-भावना जागरूकता च भारतस्य सामूहिक-शक्तेः परिचायिका अस्ति। सुवर्ण-क्रयस्य संयमः, विदेश-यात्राणां स्थगनम्, सहयान-व्यवस्थायाः स्वीकरणम्, प्राकृतिक-कृषेः प्रोत्साहनम् इत्यादिषु तस्य आह्वानं जनैः सकारात्मकतया स्वीकृतम्। राष्ट्रीय-हितस्य विषयेषु देशः सदैव एकतया कार्यं कर्तुं सज्जः अस्ति।

तेन उक्तं यत् अनेकैः परिवारैः विवाहोत्सवेषु नूतन-सुवर्ण-क्रयस्य स्थाने पुरातन-आभरणानां पुनर्चक्रणेन उपयोगः कृतः। बहुभिः जनैः विदेश-यात्राः स्थगिताः, सार्वजनिक-परिवहनस्य उपयोगः वर्धितः, सहयान-व्यवस्था च स्वीकृता, येन इन्धनस्य संरक्षणम् अभवत्। विविध-राज्येभ्यः प्राकृतिक-उर्वरक-प्रयोगस्य वृद्धेः समाचाराः अपि प्राप्ताः।

प्रधानमन्त्री उक्तवान् यत् सः कोलकातानगरे भारतीय-नौसेनायाः महत्त्वपूर्णे कार्यक्रमे सहभागी अभवत्, यत्र आईएनएस-दूनागिरिः, आईएनएस-संशोधकः तथा आईएनएस-अग्रयः नौसेनायाः परिसरे समावेशिताः। एतेषां युद्धपोतानां रूपरेखातः निर्माणपर्यन्तं सर्वं कार्यं भारते एव सम्पन्नम्। एषा उपलब्धिः भारतस्य प्रौद्योगिकी-दक्षतायाः, अभियान्त्रिकी-कौशलस्य तथा आत्मनिर्भरतायाः प्रमाणम् अस्ति।

तेन अवदत् यत् जूनमासे भारतेन विमानन-क्षेत्रे अपि ऐतिहासिकी उपलब्धिः प्राप्ता। ‘मेड् इन् इण्डिया’ सी-२९५ परिवहन-विमानस्य प्रथमः सफलः उड्डयन-प्रयोगः सम्पन्नः। एतादृशानि ४० विमानानि भारते एव निर्मीयन्ते। अनेन एम्.एस्.एम्.ई.-क्षेत्रस्य, एयरोस्पेस्-उद्योगस्य, कौशल-विकासस्य च प्रोत्साहनं भविष्यति, युवभ्यः नूतनाः रोजगार-अवसराश्च सृज्यन्ते।

प्रधानमन्त्री अवदत् यत् डी.आर.डी.ओ.-संस्थया स्वदेशी-दीर्घ-दूरी-स्थल-आक्रमण-क्रूज-प्रक्षेपास्त्रस्य सफलः परीक्षण-प्रयोगः कृतः। एषा उपलब्धिः डी.आर.डी.ओ. तथा भारतीय-उद्योग-जगतः संयुक्त-प्रयत्नस्य परिणामः अस्ति।

तेन उक्तं यत् भारतीय-संस्कृतिः विश्वस्य दूरस्थ-प्रदेशान् अपि प्राप्नोति। डोमिनिकन-गणराज्ये ‘ब्रह्मकमल-डोमिनिकाना’ इति समूहस्य सदस्याः वैदिक-साहित्यस्य अध्ययनं कुर्वन्ति, वैदिक-मन्त्राणां उच्चारणं च शिक्षन्ते।

प्रधानमन्त्री मेघालयस्य जीवित-मूल-सेतूनाम् उल्लेखं कृत्वा अवदत् यत् एते प्रकृतेः मानवस्य च सन्तुलनस्य अद्भुतम् उदाहरणम् सन्ति। भारतेन तेषां यूनेस्को-विश्व-धरोहर-सूच्यां समावेशार्थम् आवेदनं कृतम्। स्थानीय-समुदायाः १२० अधिकानां मूल-सेतूनां संरक्षणं कुर्वन्ति। पद्म-पुरस्कार-विभूषितस्य हाली-वार इत्यस्य योगदानम् अपि तेन स्मारितम्।

योग-दिवसस्य विषये प्रधानमन्त्री अवदत् यत् अस्मिन् वर्षे अपि अन्ताराष्ट्रिय-योग-दिवसः विश्वस्य २५०० अधिक-स्थानेषु आचरितः। भारते अपि कोटिशः जनाः योग-दिवसे सहभागी अभवन्। योगः अधुना केवलं भारतस्य परम्परा नास्ति, अपितु वैश्विक-जीवनशैल्याः अङ्गम् अभवत्।

अहमदाबादे आयोजितायां विश्व-योगासन-प्रतियोगितायां भारतीय-क्रीडकैः ११४ पदकानि, तेषु १०२ स्वर्ण-पदकानि च प्राप्तानि इति तेन गौरवेन उक्तम्।

प्रधानमन्त्री महाराष्ट्रस्य नान्देड-जनपदस्य बहादुरपुर-ग्रामस्य पेठकर-परिवारस्य उदाहरणम् अददात्। विवाह-अवसरे तैः ३५०० ग्रामीणाणां कृते दुर्घटना-बीमायोजनां कृत्वा प्रत्येकस्मै एक-लक्ष-रूप्यक-मूल्यस्य बीमा-सुरक्षा प्रदत्ता।

तेन उक्तं यत् प्रधानमन्त्री-सुरक्षा-बीमा-योजनया केवलं २० रूप्यकाणां वार्षिक-प्रीमियमेन द्वि-लक्ष-रूप्यक-पर्यन्तं दुर्घटना-बीमा दीयते। अद्यावधि ५८ कोट्यधिकाः जनाः, तेषु २८ कोट्यधिकाः महिलाः, अस्यां योजनायां सम्बद्धाः सन्ति। प्रधानमन्त्री-जीवन-ज्योति-बीमा-योजनायाम् अपि ४३६ रूप्यक-वार्षिक-प्रीमियमेन द्वि-लक्ष-रूप्यक-जीवन-बीमा प्रदीयते, यस्य लाभं २७ कोट्यधिकाः जनाः प्राप्तवन्तः।

प्रधानमन्त्री अवदत् यत् अन्धविश्वासः समाजं पृष्ठतः नयति, विज्ञानं जागरूकता च अग्रे नयतः। असम-राज्यस्य हरगिला-पक्षि-संरक्षण-अभियानस्य उल्लेखं कुर्वन् सः अवदत् यत् जीववैज्ञानिकया पूर्णिमा-देवी-बर्मन-महोदयया वैज्ञानिक-तथ्यानि प्रसार्य जन-जागरूकता वर्धिता, अधुना सहस्रशः महिलाः ‘हरगिला-आर्मी’ इति नाम्ना संरक्षण-कार्ये संलग्नाः सन्ति।

तेन नागालैण्डस्य बेबी-लीग् तथा महिला-फुट्सल-लीग-स्पर्धा इत्येतयोः अपि प्रशंसा कृता, याभ्यां बालकानां बालिकानां च क्रीडा-प्रतिभा विकसिताभवत्।

प्रधानमन्त्री उक्तवान् यत् नालन्दा-विश्वविद्यालयेन प्राचीन-शास्त्रार्थ-परम्परा नूतनरूपेण पुनर्जीविता। केन्द्रीय-संस्कृत-विश्वविद्यालयेन कृत्रिम-बुद्धिमत्ता तथा दत्तांश-विज्ञानम् इत्यस्मिन् बी.टेक-पाठ्यक्रमस्य प्रारम्भस्य निर्णयः अपि कृतः।

मध्यप्रदेशस्य राजगढ़-जनपदस्य बियावरा-नगरस्य महिलाभिः प्लास्टिक-अवशिष्टानि ईको-ब्रिक्स् इति रूपे परिवर्त्य पर्यावरण-संरक्षणस्य प्रेरणादायकम् उदाहरणं प्रस्तुतम् इति तेन प्रशंसितम्।

आगामिनि गणेश-महोत्सवे मृण्मयी-गणेश-प्रतिमानां उपयोगं, प्लास्टर-ऑफ-पेरिस-निर्मित-प्रतिमानां परित्यागं, स्थानीय-शिल्पिभिः निर्मित-प्रतिमानां क्रयणं च कर्तुम् प्रधानमन्त्री जनान् आहूतवान्। ‘वोकल फॉर लोकल’ इति अभियानं केवलम् आर्थिक-प्रयत्नः न, अपितु सांस्कृतिक-सामाजिक-शक्तेः वर्धनस्य साधनम् अपि अस्ति इति तेन उक्तम्।

अन्ते प्रधानमन्त्री जल-संरक्षणं जनान्दोलनं कर्तुं, ‘कैच द रेन’ अभियानं सुदृढं कर्तुं, वर्षाजलस्य प्रत्येकं बिन्दुं संरक्षितुं च देशवासिनः आहूतवान्।

Hindusthan Samachar / Divya Ranjan