Enter your Email Address to subscribe to our newsletters

नवदेहली, २८ जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे सेशेल्स-देशस्य स्टेट्-हाउस-भवने राष्ट्रपतिना डॉ.पैट्रिक-हर्मिनी इत्यनेन सह आधिकारिक-वार्तां कृतवान्। अस्मिन् अवसरे उभाभ्यां नेतृभ्यां हिन्द-महासागर-प्रदेशे शान्तेः, समृद्धेः तथा धारणीय-विकासस्य कृते स्वस्य सहभाग-प्रतिबद्धता पुनरपि पुनरुक्ता। वार्तायां सेशेल्स-देशे यूपीआई-व्यवस्थायाः प्रवर्तनम्, उभयदेशयोः सम्पर्क-विस्तारः तथा सुलभ-मूल्येन औषधानाम् उपलब्धता इत्यादिषु विषयेषु अनेकानि सन्धि-ज्ञापनानि सम्पादितानि।
विदेश-मन्त्रालयस्य अनुसारं प्रधानमन्त्री तथा राष्ट्रपतिः हर्मिनी भारत-सेशेल्सयोः दीर्घकालीन-सहभागितां पुनः दृढीकृतवन्तौ। विकास-सहभागिता, स्वास्थ्य-सेवा, आधारभूत-संरचना, आर्थिक-सहयोगः, सामुद्रिक-सुरक्षा तथा जन-जनयोः सम्बन्धाः इत्यादिषु क्षेत्रेषु सहयोगस्य विषये विस्तृता चर्चा अभवत्। उभाभ्यां नेतृभ्यां अस्य वर्षस्य आरम्भे राष्ट्रपतिः हर्मिनी भारत-भ्रमणकाले स्वीकृतानां निर्णयानां कार्यान्वयने प्राप्तस्य प्रगतेः स्वागतं कृतम्। एतेषु १७.५ कोटि-अमेरिकी-डॉलर-मूल्यस्य विशेष-आर्थिक-पैकेज-इत्यस्य अन्तर्गताः परियोजनाः अपि समाविष्टाः सन्ति।
उभौ नेतारौ स्वास्थ्य-सेवा, कृषिः, डिजिटल-भुगतान-व्यवस्था, सामुद्रिक-सहयोगः, विकास-सहभागिता, अन्तरिक्ष-सहयोगः, विधिक-सहयोगः तथा क्षमता-निर्माणम् इत्यादिषु क्षेत्रेषु सहयोगं सुदृढीकर्तुं विविधानां सम्झौता-ज्ञापनानां सन्धिनां च आदान-प्रदानस्य साक्षिणौ अभवताम्।
उभयपक्षे भारत-सेशेल्सयोः राजनयिक-सम्बन्धानां पञ्चाशद्वर्ष-पूर्त्युपलक्ष्ये स्मारक-चिह्नस्य अपि लोकार्पणम् अकुरुताम्। उभौ नेतारौ सेशेल्स-देशे व्यावसायिक-तांत्रिक-शिक्षा-केन्द्रस्य शिलान्यास-कार्यक्रमे आभासीय-माध्यमेन सहभागी अभवताम्।
वार्तानन्तरं संयुक्त-पत्रकार-सम्बोधने प्रधानमन्त्री अवदत्— “सेशेल्स-भ्रमणस्य सन्देशः स्पष्टः अस्ति। भारतः तादृशं हिन्द-महासागर-प्रदेशं परिकल्पयति, यत्र सामुद्रिक-सुरक्षया सह आर्थिक-समृद्धिरपि वर्धते। यत्र अस्माकं सहभागिता आकारेण न, अपितु परस्पर-सम्मानेन विश्वासेन च आधारिताऽस्ति। यत्र वयं केवलं समीपे न, अपितु सह-सह गच्छामः।”
प्रधानमन्त्री अवदत् यत् अद्य जन-औषधि-सम्बद्धेन सेशेल्स-देशस्य जनानां कृते गुणवत्तायुक्तानां सुलभ-मूल्यानां च औषधानाम् उपलब्धता वर्धिष्यते। तदतिरिक्तं सेशेल्स-देशे यूपीआई-व्यवस्थायाः प्रवर्तनार्थम् अपि सन्धि: क्रियते। भारत-सेशेल्सयोः मध्ये सम्पर्क-संवर्धनाय अपि कार्यं भविष्यति।
स्वीये वक्तव्ये प्रधानमन्त्री ‘गार्डियन-ऑफ-द-ब्लू-होराइज़न’ इति सम्मानस्य प्रदाने राष्ट्रपतिं प्रति धन्यवादम् अर्पितवान्। तेन उक्तं यत् एतत् सम्मानं तस्य तथा १४० कोटि-भारतीयानां कृते महत: गौरवस्य विषयः अस्ति। सः एतं सम्मानं विनयपूर्वकं स्वीकृत्य तान् सर्वान् देशान् समर्पयति ये जलवायु-परिवर्तनस्य आव्हानस्य समक्षं कुर्वन्ति तथा पर्यावरण-संरक्षणं भावि-वंशान् प्रति स्वकर्तव्यं मन्यन्ते।
Hindusthan Samachar / Divya Ranjan