Enter your Email Address to subscribe to our newsletters

रायपुरम्, 28 जूनमासः (हि. स.)।
मुख्यमन्त्री विष्णुदेवसायः राष्ट्रियपल्सपोलियोअभियानस्य अवसरे प्रदेशवासिभ्यः विशेषतः मातृपितृभ्यः अभिभावकेभ्यश्च आह्वानं कृतवान् यत् ते स्वेषां शून्यतः पञ्चवर्षपर्यन्तानां प्रत्येकस्मै बालकाय पोलियोनिवारकौषधस्य द्वे बिन्दू अवश्यमेव पाययेयुः।
मुख्यमन्त्री श्रीसायः स्वसन्देशे उक्तवान् यत् यदा बालानां भविष्यस्य विषयः भवति तदा अस्माकं लघ्वी अपि सावधानी महान् परिवर्तनम् आनयितुं शक्नोति। पोलियोनिवारकौषधस्य द्वे बिन्दू केवलम् औषधं न स्तः अपितु बालानां स्वस्थसुरक्षितउज्ज्वलभविष्यस्य संरक्षणस्य दृढसंकल्पः स्तः।
मुख्यमन्त्री अवदत् यत् पोलियोनाम्नी गम्भीरव्याधेः बालान् सुरक्षितान् स्थापयितुं प्रत्येकस्य अभिभावकस्य सहभागिता अत्यन्तम् आवश्यकाऽस्ति। तेन सर्वेभ्यः नागरिकेभ्यः अनुरोधः कृतः यत् ते स्वपरिसरे अपि एतत् सुनिश्चितं कुर्वन्तु यत् कश्चिदपि बालकः पोलियोनिवारकौषधस्य द्वाभ्यां बिन्दुभ्यां वञ्चितः न भवेत्।
मुख्यमन्त्री श्रीसायः अवदत् यत् अस्माकं सर्वेषां सामूहिकप्रयत्नैरेव पोलियोमुक्तभारतस्य संकल्पः अधिकं सुदृढः कर्तुं शक्यते। तेन प्रदेशवासिनः राष्ट्रियपल्सपोलियोअभियाने सक्रियसहभागितां निर्वहन्तु तथा च बालानां श्रेष्ठभविष्यस्य कृते स्वकर्तव्यस्य सम्यक् निर्वहणं कुर्वन्तु इति आह्वानं कृतम्।
---------------
Hindusthan Samachar / Dheeraj Maithani