Enter your Email Address to subscribe to our newsletters

नवदेहली, २८ जूनमासः (हि.स.)। पर्यावरण-कार्यकर्ता सोनम्-वाङ्चुकः रविवासरे देहल्याः जन्तर-मन्तर-स्थले अनिश्चितकालीन-अनशने उपवेष्टुं पूर्वं राजघाटं गत्वा राष्ट्रपितरं महात्मा-गान्धिनम् श्रद्धाञ्जलिम् अर्पितवान्।
एतां सूचनां सामाजिक-माध्यम-अभियानस्य 'कॉकरोच-जनता-पार्टी' इत्यस्य प्रमुखः अभिजीत-दीपके एक्स इति सामाजिक-माध्यमे प्रकाशितवान्।
सः कथितस्य नीट-प्रश्नपत्र-प्रसारण-प्रकरणस्य विषये केन्द्रीय-शिक्षामन्त्रिणः धर्मेन्द्र-प्रधानस्य त्यागपत्रं तथा उत्तरदायित्व-निर्धारणं च याचते। एषा क्षुधा-प्रदर्शनं सीजेपी-सङ्घटनस्य जन्तर-मन्तर-स्थले प्रवर्तमानस्य विरोध-प्रदर्शनस्य भागः अस्ति।
अस्मात् पूर्वं सोनम्-वाङ्चुकेन सामाजिक-माध्यमे प्रकाशिते एकस्मिन् वीडियो-सन्देशे उक्तं यत् सः जूनमासस्य २७ दिनाङ्कपर्यन्तं सर्वकारस्य उत्तरस्य प्रतीक्षां करिष्यति। यदि सर्वकारतः शिक्षाव्यवस्थायाः सुधारस्य अथवा लद्दाखस्य पर्यावरणस्य संस्कृतेः च संरक्षणसम्बद्धेषु विषयेषु कापि सकारात्मक-प्रतिक्रिया न प्राप्स्यते, तर्हि सः जूनमासस्य २८ दिनाङ्कतः जन्तर-मन्तरे अनशने उपवेक्ष्यति।
सीजेपी-सङ्गठनेन देशस्य यून: नागरिकान् च प्रति आह्वानं कृतं यत् ते अद्य जन्तर-मन्तरम् आगत्य सोनम्-वाङ्चुकस्य अस्य अभियानस्य च समर्थनार्थम् एकतां प्रदर्शयन्तु।
Hindusthan Samachar / Divya Ranjan