Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 28 जूनमासः (हि.स.)।स्कॉटलैण्डदेशस्य पुरुषराष्ट्रियपादकन्दुकदलस्य मुख्यप्रशिक्षकः स्टीव क्लार्क स्वपदात् त्यागपत्रं प्रदत्तवान्। स्कॉटिश पादकन्दुक संघेन एषा सूचना प्रदत्ता।
संघेन प्रकाशिते वक्तव्ये उक्तं यत् स्कॉटलैण्डदलस्य फीफा विश्वकप २०२६ प्रतियोगितातः बहिर्गमनस्य पुष्टेः अनन्तरं देशस्य सर्वाधिकसफलः राष्ट्रीयमुख्यप्रशिक्षकः स्वस्य सप्तवर्षीयकार्यकालस्य समापनं कर्तुं निर्णयं कृतवान्। स्टीव क्लार्क स्वकार्यकाले स्कॉटलैण्डदलम् अष्टाविंशतिवर्षाणाम् अनन्तरं प्रथमवारं पुरुषफीफा विश्वकप प्रतियोगितायां प्रवेशं प्राप्तवन्तम् अकरोत्। तेन एव दलं निरन्तरं द्विवारं यूईएफए यूरोपीय चाम्पियनशिप प्रतियोगितायै योग्यता प्राप्तवद्।
स्कॉटलैण्डदलम् फीफा विश्वकप २०२६ प्रतियोगितायां स्वकीयाभियानस्य आरम्भं हैतीदेशस्य विरुद्धं १ ० इति विजयेन अकरोत्। ततः परं मोरक्को तथा ब्राजीलदेशाभ्यां पराजयस्य कारणात् स्कॉटलैण्डदलम् स्वसमूहे तृतीयस्थानं प्राप्त्वा प्रतियोगितातः बहिः अभवत्।
स्टीव क्लार्क स्वकार्यकाले दलस्य उपलब्धीषु गर्वम् अभिव्यक्तवान्। तेन उक्तं यत् अस्य विदायाः सर्वाधिकः भावुकः पक्षः मम क्रीडकान् प्रति अस्ति। तेषां विना वयम् २०१९ वर्षात् आरभ्य अद्यपर्यन्तं याः अविस्मरणीयाः स्मृतयः सञ्चितवन्तः ताः सम्भवितुं न शक्नुवन्ति स्म। ते सर्वप्रशंसायाः सम्मानस्य च पात्राः सन्ति। तेषां प्रशिक्षकः इति कथनम् मम कृते वास्तवमेव महान् सम्मानः आसीत्। तेन अवसरप्रदानाय धन्यवादः प्रदत्तः तथा स्वोत्तराधिकारिणे शुभकामनाः अपि प्रदत्ताः।
स्कॉटिश पादकन्दुक संघस्य मुख्यकार्यकारी अधिकारी इयान मैक्सवेल अवदत् यत् वयं सर्वे समूहचरणे विश्वकप प्रतियोगितातः बहिर्गमनात् निराशाः स्म। किन्तु स्टीव क्लार्कस्य सप्तवर्षीयकार्यकाले जाता उल्लेखनीया प्रगतिः विस्मर्तुं न शक्यते। तेन स्कॉटलैण्डदलम् पुनः महतीं अन्ताराष्ट्रियप्रतियोगितां प्रति नेतुं स्वदायित्वं सम्यक् निर्वाहितम्। वयं तस्य अभिलेखभञ्जकयोगदानाय हार्दिकं धन्यवादं प्रदद्मः।
---------------
Hindusthan Samachar / Dheeraj Maithani