Enter your Email Address to subscribe to our newsletters

तिरुनेलवेलीनगरम्, २८ जूनमासः (हि.स.)। तमिलनाडु-राज्यस्य ऐतिहासिके नेल्लैयप्पर-कान्तिमती-अम्मन्-मन्दिरे आयोजितस्य ५२०तमस्य आणी-महोत्सवस्य अन्तर्गतं रविवासरे श्रद्धा-भक्ति-उल्लासपूर्णे वातावरणे भव्यः रथोत्सवः सम्पन्नः। एशिया-खण्डस्य प्रमुखेषु प्राचीनेषु च शिव-मन्दिरेषु अन्यतमस्य अस्य मन्दिरस्य वार्षिक-रथोत्सवे सहभागितार्थं तमिलनाडु-राज्यस्य विविध-जनपदेभ्यः लक्षशः श्रद्धालवः तिरुनेलवेलीनगरम् आगतवन्तः। चतर्षु रथमार्गेषु श्रद्धालूनां महान् सम्मर्द: आसीत् तथा सम्पूर्णं नगरम् ॐ नमः शिवाय तथा हर हर महादेव इति जयघोषैः मुखरितम् अभवत्।
रविवासरे प्रातःकाले पारम्परिक-वैदिक-मन्त्र-उच्चारणेन धार्मिक-अनुष्ठानैश्च सह रथोत्सवस्य शुभारम्भः अभवत्। हिन्दू-धार्मिक-धर्मार्थ-व्यवस्था-विभागस्य मन्त्री रमेशः, मन्त्री मदनः तथा तिरुनेलवेली-जनपदस्य जनपदाधीशः विधिवत् पूजार्चनां कृत्वा रथस्य रज्जुम् आकृष्य यात्रायाः शुभारम्भम् अकुर्वन्। ततः परं सहस्रशः श्रद्धालवः दीर्घ-रज्जून् गृहीत्वा महता श्रद्धया उत्साहेन च भगवान् नेल्लैयप्परस्य विशाल-रथं नगर-परिभ्रमणम् अकारयन्।
प्रायः ८५ पाद-उन्नतः तथा ४५०-टन-भारयुक्तः अयं विशालः रथः देशस्य बृहत्सु गुरुतमेषु च मन्दिर-रथेषु परिगण्यते। अस्य रथस्य संरचना एतादृशी अस्ति यत् चतुर्षु रथमार्गेषु कस्मादपि कोणात् श्रद्धालवः तस्य दर्शनं कर्तुं शक्नुवन्ति। यथा यथा रथः अग्रे सरति स्म तथा तथा श्रद्धालवः भगवत: शिवस्य जयघोषं कुर्वन्तः भक्तौ निमग्नाः दृश्यन्ते स्म। रथे विराजमानयोः भगवत: नेल्लैयप्परस्य देवी कान्तिमती-अम्मनः च दिव्य-दर्शनार्थं श्रद्धालूनां महान् सम्मर्द: समागत:।
नेल्लैयप्पर-मन्दिरस्य आणी-महोत्सवः तमिलनाडु-राज्यस्य दीर्घतमेषु महत्त्वपूर्णेषु च धार्मिक-आयोजनेषु अन्यतमः अस्ति। उपमन्दिराणाम् उत्सवैः सह एषः महोत्सवः प्रायः चत्वारिंशद्दिनानि यावत् प्रचलति। मुख्य-महोत्सवस्य शुभारम्भः जूनमासस्य २० दिनाङ्के ध्वजारोहणेन अभवत्। ततः प्रतिदिनं विशेष-पूजा, अभिषेकः, आराधना, सांस्कृतिक-कार्यक्रमाः तथा शोभायात्राः आयोजिताः। महोत्सवस्य नवमेऽहनि आयोज्यमानः रथोत्सवः सम्पूर्णस्य महोत्सवस्य प्रमुखम् आकर्षणम् मन्यते।
पूर्वं परम्परानुसारम् अस्य विशाल-रथस्य चतुर्षु रथमार्गेषु परिक्रमां कृत्वा पुनः स्वस्थानं प्रत्यागन्तुं १० तः १५ दिनानि यावत् समयः आवश्यकः आसीत्। किन्तु आधुनिक-प्रौद्योगिक्या, उत्तम-प्रबन्धनेन प्रशासनिक-व्यवस्थया च इदानीं रथोत्सवस्य दिने एव सम्पूर्णा परिक्रमा सम्पन्ना भवति तथा रथः सुरक्षितरूपेण स्वनिर्धारित-स्थाने पुनः स्थाप्यते।
रथोत्सवस्य अवधौ जनपद-प्रशासनेन सुरक्षा-व्यवस्थायाः श्रद्धालूनां सुविधायाश्च व्यापकाः प्रबन्धाः कृताः। बहुसंख्यकः आरक्षक-दलं नियुक्तम् आसीत्। तदतिरिक्तं श्रद्धालूनां कृते पेयजलम्, चिकित्सासहायता, एम्बुलेन्स-सेवा, प्राथमिक-चिकित्सा-केन्द्राणि तथा अन्याः आवश्यक-सुविधाः अपि व्यवस्थापिताः। प्रशासनस्य सम्पूर्णं ध्यानं रथयात्रायाः सुरक्षित-सुव्यवस्थित-सम्पादने एव आसीत्।
उल्लेखनीयं यत् अनेक-शताब्दी-प्राचीन-इतिहासयुक्तं नेल्लैयप्पर-कान्तिमती-अम्मन्-मन्दिरं तिरुनेलवेली-नगरस्य सांस्कृतिक-धार्मिक-परिचयस्य प्रमुखं केन्द्रम् अस्ति। द्रविड-स्थापत्य-शैली, विशाल-रथोत्सवः, प्राचीन-धार्मिक-परम्पराः तथा आध्यात्मिक-महत्त्वस्य कारणात् एतत् मन्दिरं देशस्य सर्वेभ्यः श्रद्धालुभ्यः पर्यटकेभ्यश्च विशेष-श्रद्धाया: केन्द्रं मन्यते। प्रतिवर्षम् आयोज्यमानः अयं भव्यः रथोत्सवः तमिलनाडु-राज्यस्य समृद्ध-धार्मिक-परम्परायाः सांस्कृतिक-परम्परायाश्च सजीवं प्रतीकं भूत्वा लक्षशः श्रद्धालून् आकर्षयति।
हिन्दुस्थानसमाचारः
Hindusthan Samachar / Divya Ranjan