राष्ट्रीय-पल्स-पोलियो-अभियानस्य अन्तर्गतं छत्तीसगढे जन्मतः पञ्चवर्षपर्यन्तं बालकेभ्यः पोलियो-औषधं पाय्यते
रायपुरम्, २८ जूनमासः (हि.स.)। राष्ट्रीय-पल्स-पोलियो-अभियानस्य अन्तर्गतं अद्य छत्तीसगढ-राज्ये जन्मतः पञ्चवर्षपर्यन्तं बालकेभ्यः पोलियो-प्रतिरक्षणार्थं औषधस्य द्वे बिन्दू पाय्यन्ते। अस्य अभियानस्य अन्तर्गतं राज्यस्य ३५ लक्षं ९८ सहस्रं ९०४ बालकेभ्यः प
छत्तीसगढ़ में पोलियो अभियान फाइल फाेटाे


रायपुरम्, २८ जूनमासः (हि.स.)। राष्ट्रीय-पल्स-पोलियो-अभियानस्य अन्तर्गतं अद्य छत्तीसगढ-राज्ये जन्मतः पञ्चवर्षपर्यन्तं बालकेभ्यः पोलियो-प्रतिरक्षणार्थं औषधस्य द्वे बिन्दू पाय्यन्ते। अस्य अभियानस्य अन्तर्गतं राज्यस्य ३५ लक्षं ९८ सहस्रं ९०४ बालकेभ्यः पोलियो-प्रतिरक्षणार्थं औषधस्य द्वे बिन्दू पाययिष्यन्ते। अभियानस्य सञ्चालनार्थं २८,७९१ दलानि तथा ५७ सहस्राधिकाः टीकाकरणकर्मिणः नियुक्ताः सन्ति।

बूथ-दिवसस्य अनन्तरं २९ तथा ३० जूनमासयोः दलानि गृहं गत्वा तान् बालकानपि पोलियो-औषधं पाययिष्यन्ति, ये केनचित् कारणेन बूथपर्यन्तं न आगन्तुं शक्नुवन्ति।

अस्मिन् अभियाने दूरस्थानि ग्रामाणि, वनाञ्चल-प्रदेशाः, नागर-बस्तयः, इष्टिका-भट्टिकाः, निर्माण-स्थलानि तथा प्रवासी-भ्रमन्त-परिवाराणां बालकाः विशेषरूपेण समावेश्यन्ते। बूथ-दिवसस्य अनन्तरं दलानि गृहे गृहे भ्रमणं कृत्वा तेषां बालकेभ्य: पोलियो-औषधं पाययिष्यन्ति, ये बूथपर्यन्तं न आगन्तुं शक्नुवन्ति।

राज्य-टीकाकरण-अधिकारी डॉ. वी.आर.भगतः अवदत्, राष्ट्रीय-पल्स-पोलियो-अभियानस्य सर्वाः सज्जताः समयबद्धरूपेण सम्पन्नाः सन्ति। अभियानस्य अवधौ बूथ-इत्येतेषु तथा गृहे गृहे भ्रमणेन एतत् सुनिश्चितं भविष्यति यत् जन्मतः पञ्चवर्षपर्यन्तं कश्चिदपि बालकः पोलियो-औषधात् वञ्चितः न भवेत्। अभिभावकाः स्वबालकान् निर्धारितेषु बूथ-इत्येतेषु अवश्य आनयन्तु। यदि केनचित् कारणेन ते बूथपरृयन्तं न आगच्छेयुः, तर्हि गृहम् आगच्छन्तीं स्वास्थ्यदलस्य सहाय्यं कुर्वन्तु। पोलियो-मुक्त-भारतस्य उपलब्धेः संरक्षणे प्रत्येकं परिवारस्य सहभागिता अत्यन्तम् महत्त्वपूर्णा अस्ति।

स्वास्थ्य-विभागेन अभिभावकेभ्यः आह्वानं कृतं यत् ते जन्मतः पञ्चवर्षपर्यन्तं प्रत्येकं बालकं, पूर्वमेव नियमित-टीकाकरणे अथवा पल्स-पोलियो-अभियाने पोलियो-औषधं प्राप्तम् अस्ति चेत् अपि, अस्मिन् अभियाने पुनः पोलियो-औषधस्य द्वे बिन्दू अवश्य पाययन्तु। पोलियो-मुक्त-भारतस्य उपलब्धेः संरक्षणार्थं प्रत्येकं बालकं प्रति अभियानस्य लाभः प्रापणीयः।

हिन्दुस्थानसमाचारः

Hindusthan Samachar / Divya Ranjan